सामग्री पर जाएँ

प्रावृषेण्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रावृषेण्यः, पुं, (प्रावृषि भवः प्रावृट् देवतास्य वेति । प्रावृष् + “कालेभ्यो भववत् ।” ४ । २ । ३४ । इति “प्रवृष एण्यः ।” ४ । ३ । १७ । इति एण्यः ।) कदम्बवृक्षः । इति मेदिनी ॥ कुटजवृक्षः । धाराकदम्बः । इति राजनिर्घण्टः ॥

प्रावृषेण्यः, त्रि, (प्रावृषि भव इति । प्रावृष् + एण्यः ।) प्रावृट्कालभवः । इति मेदिनी ॥ (यथा, रघौ । १ । ३६ । “स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”) प्राचुर्य्यम् । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=प्रावृषेण्यः&oldid=152113" इत्यस्माद् प्रतिप्राप्तम्