सामग्री पर जाएँ

प्रासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रासः, पुं, (प्रास्यते क्षिप्यते इति । प्र + अस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) कुन्ता- स्त्रम् । इत्यमरः । २ । ८ । ९३ ॥ को~च इति भाषा ॥ (यथा, महाभारते । ६ । ६७ । २३ । “गदाभिरसिभिः प्रासैर्वाणैश्चानतपर्व्वभिः ॥” अस्य आकृतिलक्षणादिकं यदुक्तं शुक्रनीतौ तद्यथा, -- “प्रासास्त्रन्तु चतुर्हस्तं दण्डबुध्नं क्षुराननम् ॥” यथाच । “प्रासस्तु सप्तहस्तः स्यादौन्नत्येन तु वैणवः । लौहशीर्षस्तीक्ष्णपादः कौशेयस्तवकाञ्चितः ॥ आकर्षश्च विकर्षश्च धूननं वेधनं तथा । चतस्र एता गतय उक्ताः प्रासं समाश्रिताः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रासः [prāsḥ], 1 Throwing, casting, discharging.

A dart, a barbed missile; समुल्लसत्प्रासमहोर्मिमालम् Ki.16.4.

Insertion.

A particular position of a planet.

"https://sa.wiktionary.org/w/index.php?title=प्रासः&oldid=370158" इत्यस्माद् प्रतिप्राप्तम्