सामग्री पर जाएँ

प्रास्थिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रास्थिकः, त्रि, (प्रस्थ + “सम्भवत्यवहरति पचति ।” ५ । १ । ५२ । इति ठञ् । प्रस्थपरिमितधान्यादेः समावेशकः अवहारकः पाचकश्च ।) प्रस्थं सम्म- वति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन् समा- वेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमव- हरति पचति वेत्यर्थः । इति सिद्धान्तकौमुदी ॥ (प्रस्थं परिमाणमस्येति । “तदस्य परिमाणम् ।” ५ । १ । ५७ । इति ठञ् । प्रस्थपरिमितः । यथा, सुश्रुते चिकित्सितस्थाने । १२ अध्याये । “यवकोलकुलस्थांश्च प्रास्थिकान् सलिलद्रोणे निःक्वाथ्येति ॥” प्रस्थेन क्रीतमिति । “तेन क्रीतम् ।” ५ । १ । ३७ । इति ठञ् । प्रस्थक्रीतः ॥ प्रस्थस्य वापः । “तस्य वापः ।” ५ । १ । ४५ । इति ठञ् । प्रस्थपरिमितव्रीह्यादिवपनयोग्ये क्षेत्रे । यथा, शब्दरत्नावल्याम् । “द्रोणाढकखार्य्यादेर्वापादौ द्रौणिकस्तथा । स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु । आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिको ऽपि च ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रास्थिकः&oldid=152137" इत्यस्माद् प्रतिप्राप्तम्