प्रियंवदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रियंवदः, पुं, (प्रियं वदतीति । वद् + “प्रियवशे वदः खच् ।” ३ । २ । ३८ । इति खच् । मुम् ।) खेचरः । गन्धर्व्वभेदः । (यथा, रघुः । ५ । ५३ । “अवेहि गन्धर्व्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥”) प्रियभाषिणि, त्रि । इति शब्दरत्नावली ॥ तत् कारणं यथा, दानसागरे शिवपुराणम् । “गोसहस्रप्रदातारो भूमिदातार एव च । ये सुवर्णप्रदातारस्तथा सर्व्वे प्रियंवदाः ॥” (द्वादशाक्षरवृत्तौ, स्त्री । तल्लक्षणं यथा, वृत्तरत्नाकरे । “भुवि भवेन्नभजरैः प्रियंवदा ॥”)
