प्रियकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रियकः, पुं, (प्रिय + स्वार्थे संज्ञायां वा कन् ।) पीतशालकः । (यथा, रामायणे । २ । ७१ । १२-१३ । “तत्र रम्ये वने वासं कृत्वासौ प्राङ्मु खो ययौ । उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ शालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः । अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥”) नीपः । (यथा, हरिवंशे । ७२ । १५ । “प्रियकैः पुष्पितैः र्गौरं श्यामं वाणासनैः क्वचित् । कठोरतृणमाभाति निर्मयूररुतं वनम् ॥”) चित्रमृगः । (यथा, माघे । ४ । ३२ । “रुचिरचित्रतनूरुहशालिभि- र्विचलितैः परितः प्रियकव्रजैः ॥” पक्षिविशेषः । यथा, महाभारते । ३ । १५८ । ५१ । “प्रियकैश्चातकैश्चैव तथान्यैर्विविधैः खगैः ॥”) अलिः । प्रियङ्गुः । कुङ्कुमम् । इति मेदिनी ॥ धाराकदम्बः । अशनवृक्षः । इति राजनिर्घण्टः ॥ (स्कन्दानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ६२ । “प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रियकः [priyakḥ], 1 A kind of deer; 'प्रियको रोमभिर्युक्तो मृदूच्चम- सृणैर्घनैः' Vaijayantī; विचलितैः परितः प्रियकव्रजैः Śi.4.32.
The tree called नीप, कदम्ब; उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः Rām.2.71.12.
The creeper प्रियङ्गु.
A bee.
A kind of bird.
Saffron. -की The skin of the प्रियक deer; Rām.3.43.36. -कम् A flower of theaśana tree; उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव Śi.8.28.
