प्रीतिदत्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रीतिदत्तम्, क्ली, (प्रीत्या दत्तमिति ।) प्रीत्या दत्त- वस्तु । यथा, मिताक्षरायाम् । “प्रीत्या दत्तन्तु यत् किञ्चित् श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकञ्चैव प्रीतिदत्तं तदुच्यते ॥” भावे क्तप्रत्यये प्रीतिदानञ्च ॥
