प्रेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेतः, पुं, (प्र + इ गतौ + क्तः ।) नरकस्थप्राणी । इत्यमरः । ३ । ३ । ५९ ॥ भूतभेदः । मृते, त्रि । इति मेदिनी । ते, ३७ ॥ (यथा, मनुः । २ । २४७ । “आचार्य्ये तु खलु प्रेते गुरुपुत्त्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवत् वृत्तिमाचरेत् ॥”) वैदिकविधानेन और्द्धदेहिकाभावात् विष्णुद्बेषाच्च बहुनरकभोगान्ते प्रेतशरीरं भवति । यथा, -- लोमश उवाच । “ततो बहुतिथे काले स राजा पञ्चतां गतः । वैदिकेन विधानेन न लेभे सौर्द्धदेहिकम् ॥ विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम् । भुक्त्वा च यातनां यामीं निस्तीर्णनरको नृपः ॥ समया गिरिराजन्तु पिशाचोऽभूत्तदा महान् ॥” तस्य रूपं यथा, -- “देवद्युतिरधीयानः शुश्राव करुणामयः । समागत्य ततस्तत्र तं पिशाचं ददर्श सः ॥ विकरालमुखं दीनं पिशङ्गनयनं भृशम् । ऊर्द्ध्वमूर्द्धजकृष्णाङ्गं यमदूतमिवापरम् ॥ चलज्जिह्वञ्च लम्बोष्ठं दीर्घजङ्घशिराकुलम् । दीर्घाङ्घ्रिं शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्जरम् ॥” इति पाद्मोत्तरखण्डे १६ अध्यायः ॥ * ॥ सेवकायापद्रुतो यः सेवकस्त्वपरिग्रहः । ताबुभावपि जायेते प्रेतौ कालान्नकिंप्रदः ॥ द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्बिजस्य तु । शूद्रेणैव द्बिजः प्रेतो निरयानुपगच्छति ॥ गीतवाद्यरतो नित्यं मद्यपस्त्रीनिषेवणात् । द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः ॥ वृथारेतो वृथामांसो वृथावादी वृथामतिः । निन्दको द्बिजदेवानां स प्रेतो जायते नरः ॥ वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै । कन्यां ददाति शुल्केन स प्रेतो जायते नरः । न्यासापहर्त्ता मित्रध्रुक् परपाकरतस्तथा । विश्रम्भघाती कूटश्च स प्रेतो जायते नरः ॥ निर्द्दोपान् सुहृदो नारीस्त्यजेत् कालान्न पाति यः । धनमीहेत यस्तेषां स प्रेतो जायते नरः ॥ हस्त्यश्वरथयानानि मृतशय्यासनादि यः । कृष्णाजिनञ्च गृह्णाति अनापत्सु गतो द्विजः ॥ तथोभयमुखीं कालं सशैलां मेदिनीं द्बिजः । कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा । मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्न मुच्यते ॥ ब्रह्महा गोवधी स्तेयी सुरापो गुरुतल्पगः । भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः ॥ लालासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा । योनिसङ्करकृच्चापि स प्रेतो जायते नरः ॥ विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु । गवां केशरिणां मोहात् विक्रयात् प्रेततां व्रजेत् ॥ कूटमाप्ये च तौल्येन क्रयं क्रीणाति विक्रयात् । मद्यतक्रपयोदध्नां स प्रेतो जायते नरः ॥ स्त्रीरक्तो मद्यमाने तु मृगयामनुधावति । नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः ॥” इत्यग्निपुराणम् ॥ * ॥ मनुष्याणां आतिवाहिकदेहानन्तरं प्रेतदेहो भवति । यथा, विष्णुधर्म्मोत्तरे । “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् । आतिवाहिकर्संज्ञोऽसौ देहो भवति भार्गव ! ॥ केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् । प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ! ॥ भोगदेहमिति प्रोक्तं क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ॥ श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥ ततः सपिण्डीकरणे बान्धवैः स कृते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥ ततः स नरके याति स्वर्गे वा स्वेन कर्म्मणा ॥” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत पुं।

नरकस्थप्राणी

समानार्थक:नारक,प्रेत

1।9।2।2।1

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः। प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

प्रेत वि।

मृतः

समानार्थक:परासु,प्राप्तपञ्चत्व,परेत,प्रेत,संस्थित,मृत,प्रमीत

2।8।117।1।4

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत¦ त्रि॰ प्र--इ--क्त।

१ मृते अमरः।

२ नरकस्थे जीवभेदे

३ प्रिशाक्षभेदे आतिवाहिकदेहोत्तरं

४ जायमानदेहभेद्र-[Page4533-b+ 38] युते और्द्ध्वदेहिकक्रियाऽभावे तद्रूपप्राप्तिकथा पाद्मोत्त॰ ख॰

१६ अ॰ यथा
“ततो बहुतिथे काले स राजा पञ्चता-ङ्गतः। वैदिकेन विधानेन न लेभे चौर्द्ध्वदोहकम्। विष्णु-प्रद्वेषमात्रेण युगानां सप्तविंशतिम्। भुक्त्वा च यातनांथामीं निस्तीर्णनरको नृपः। समया गिरिराजन्तु पि-शाचोऽभूत्तदा महान्”। तस्य रूपं यथा
“देवद्युतिर-वीयानः शुश्रा{??}णस्वनम्। सभ्रागत्य ततस्तत्र त” पिशाचं ददर्श सः। विकरालमुखं दीनं पिशङ्गनयनंभृशम्। ऊर्द्ध्वमूर्द्ध्वजकृष्णाङ्गं यमदूतमिवापरम्। चल-जिह्वञ्च लम्बोष्ठं दीर्घजङ्घसिराकुलम्। दीर्घाङ्घ्रि-शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्चरम्”। और्द्ध्वदेहिककरणेऽपि केषाञ्चित् कर्मविशेषेण प्रेतत्वप्रा-प्तिस्तत्रोक्ता यथा
“हविर्जुह्वति नाग्नौ ये गोविन्द”{??}र्चयन्ति ये। लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्चये। सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम्। आ-र्स्तेभ्यो न प्रयच्छन्ति सर्वेषु कृतदारकाः। ब्रह्मस्वञ्चस्त्रीधनानि लोभादेव हरन्ति वे। बलेन छद्मनावापि धूर्त्ताश्च परवञ्चकाः। नास्तिकाः कुहका-श्चौरा ये चान्ये बकवृत्तयः। बालवृद्धातुरस्त्रीषु नि-र्दयाः सत्यवर्जिताः। अग्निदा गरदा ये च ये चान्येकूटमाक्षिणः। अगम्यागामिनः सर्वे ये चान्ये ग्राम-याजिनः। व्याधाचरणसम्पन्ना वर्णादिधर्मवर्जिताः। ये चोपदेवदनुजरक्षीयक्षादिसेविनः। सर्वदा मादकद्रव्य-पानमत्ता हरिद्विषः। देवतोद्दिष्टपतितनृपश्राद्धान्नभो-जिनः। असत्कर्मरता नित्यं सर्वपातकपापिनः। पाषण्दधर्माचरणाः पुरोधोवृत्तिजीविनः। पितृमातृ-स्नषापत्यस्वदारत्यागिनश्च ये। ये कदर्य्याश्च लुब्धाश्चनास्तिका धर्मदूषकाः। त्यजन्ति स्वामिनं युद्धे त्यजन्तिशरणागतम्। गवां भूमेश्च हर्त्तारो ये चान्ये रत्न-दूषकाः। महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये। परद्रोहरता ये च तथा ये प्राणिहिंसकाः। परापवा-दिनः पापा देवतागुरुनिन्दकाः। कुप्रतिग्राहिणः सर्वेसम्भवन्ति पुनःपुनः। प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयो-निषु। न तेषां सुखलेशोऽस्ति इह लोके परत्र च”। पाद्मोत्तरखण्डे

१८ अ॰। पञ्चप्रेतोपख्यानं तत्रैव यथा
“ब्राह्मण उवाच प्रेतानां नाम जातीनां युष्माकं सम्भवःकथम्। किं तत् कारणमुद्दिश्य यूयमीदृशनामसाः”। प्रेता उचुः
“अहं स्त्राद् सदा भुक्त्वा दद्यां पर्युषितं[Page4534-a+ 38] सदा। एतत्कारणमुद्दिश्य नाम पर्य्युषितं

१ मम। सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः। एतत्-कारणमुद्दिश्य सूचीमुख

२ मिमं विदुः। शीघ्रं गच्छतिविप्रेण याचितः क्षुधितेन वै। पश्चाद्भुङ्क्ते द्विजःशिष्टमेष शीघ्रक

३ उच्यते। गृहोपरि सदा भुङ्क्तेस्वाद् द्विजभयेन हि। द्विजाय कुत्सितं दत्त्वा एषरोहक

४ उच्यते। मौनेनापि स्थिरो नित्यं याचितोविलिखन्महीम्। अस्माकमपि पापिष्ठो लेखको

५ नामएष वै। मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः। शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्”। प्रेताःहारस्तत्रोक्तो यथा
“द्विज उवाच
“ये जीवा भुवि तिष्ठन्तिसर्वे आहारमूलकाः। युष्माकमपि चाहारं श्रोतु-मिच्छामि तत्त्वतः” प्रेता ऊचुः
“शृणु आहारमस्माकंसर्वसत्त्वविगर्हितम्। श्लेष्ममूत्रपुरीषेण योषितान्तु मलेनच। गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै। स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च। मले-नातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै। भयलज्जा-बिहीनानि पतितैः सेवितानि च। अन्योन्यदस्यु युक्तानिप्रेता भुञ्जन्ति तत्र वै। कलहान्वितशोकानि त्यक्तशो-भानि मण्डनैः। सवर्चस्कानि भाण्डानि प्रेता भुञ्जन्तितत्र वै। बलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु। नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै। गुरवो नैवपूज्यन्ते स्त्रीजितानि मलानि च। सक्रोधान्यपवित्राणिप्रेता भुञ्जन्ति तत्र वै। भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादा-रहितेषु च। अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भु-ञ्जते। सकेशमाक्षिकोच्छिष्टं पूति पर्युषितं तथा। सक्रो-धञ्च सशोकञ्च तच्च प्रेतेषु भोजनम्। सनग्नं भोजनंयच्च नोत्तरीयं पदासनम्। सोष्णीषं सासुरीकक्षं तच्चप्रेतेषु भोजनम्। अर्द्धग्रासं महाग्रासं सोत्क्षिप्तंपतितं तथा। दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम्। सौतिकं गृतकञ्चैव राजसं कलुषीकृतम्। निर्दीपं कृमि-वच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत्। एतत्ते कथित्त सर्वंयत् प्रेतेष्येव भोजनम्। निर्वाणाः प्रेतजात्या बैकृच्छामस्थां द्विजोत्तम”। प्रेतत्वाभावकारणं यथान षेतो जायते येन येन चैवेह जायते। एतत्सर्वं समा-सेन प्रकूहि वदतां वर!” ब्राह्मण उवाच
“एकरात्रंत्रिरात्रं वा कृच्छ्रं चान्द्रायणादिकम्। व्रतेष्वप्यु षितोयख क ऐतो जायते नरः। मिष्टान्नपानदाताथ सततं[Page4534-b+ 38] श्रद्धयान्वितः। देवपूजापरो नित्यं न ष्रेतो जायते नरः। त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः। सर्वभूतद-यापन्नो न प्रेतो जायते नरः। तुल्यमानापमानश्चतुल्यः काञ्चनलोष्टयोः। तुल्यः शत्रौ च मित्रे च नप्रेतो जायते नरः। देवतातिथिपूजासु गुरुजातिषुनित्यशः। वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः। जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः। क्षमाऽक्रोधसुशीलश्च न प्रेतो जायते नरः। देवतातिथिपूजास्तुपर्वतांश्च नदीस्तथा। पश्येद्देवालयांश्चैव न प्रेतो जायतेनरः”। प्रेतत्वकारणं यथा
“शूद्रान्नं यो द्विजो भुङ्क्तेयः क्रामति द्विजोत्तमम्। वृत्तिहा द्विजदेवेषु स प्रेतोजायते नरः। मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा। लोभात् त्यजति यः स्निग्धं स प्रेतो जायते नरः। अ-याज्ययाजकश्चैव याज्यञ्च परिवर्जयेत्। शूद्रानुग्रहकर्त्ताच स प्रेतो जायते नरः। कुज्योतिषी कुविद्यस्तु कुज-नेषु कुदेशकः। शूद्रसेवाकरो राज्ञां स प्रेतो जायतेनरः। सेवनायापद्रुतो यः सेवकस्त्वपरिग्रहः। तावु-भावपि जायेते प्रेतौ कालान्न किंप्रदौ। द्विजानुम-न्त्रितो भुङ्क्ते शूद्रान्नं वा द्विजस्य तु। शूद्रेणैव द्विजःपेतो निरयानुपगच्छति। गीतवाद्यरतो नित्यं मद्यप-स्त्रीबिषेषणात्। द्यूतमांसप्रियो यस्तु स प्रेतो जायतेनरः। वृथारेता वृथामांसो वृथावादो वृथामतिः। निन्दको द्विजदेवानां स प्रेतो जायते नरः। वृद्धं बालंगुरुं विप्रं योऽवमन्य भुनक्ति वै। कन्यां ददाति शु-ल्केन स प्रेतो जायते नरः। न्यासापहर्त्ता मित्रध्रुकपरपाकरतस्तथा। विश्रम्भघाती कूटश्च स प्रेतो जा-यते नरः। निर्दोषान् सुहृदो नारीस्त्यजेत् कालान्नपाति यः। धनमीहेत यस्तेषां संप्रेतो जायते नरः। हस्त्यश्वरथयानानि मृतशय्यासनादि यः। कृष्णाजि-नञ्च गृह्णानि अनापत्सुगतो द्विजः। तथोभयमुखींकालं सशैलां मेदिनीं द्विजः। कुरुक्षेत्रस्य यद्दानं चा-ण्डालात् पतितात्तथा। मासिकेऽपि नवश्राद्धे भुञ्जन्प्रेतान्नभुङ्मतः। ब्रह्महा गोबधी स्तेयी सुरापो गुरु-तल्पगः। भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः। नानासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा। योनिसङ्करकृ-च्चापि स प्रेतो जायते नरः। विक्रीणाति विषं शङ्खंतिलानां लवणस्य तु। गवा कशरिणां मोहात् विक्र-यात् प्रेततां व्रजेत्। कूटमाप्येन तौल्येन क्रयं क्री-[Page4535-a+ 38] णाति विक्रयात्। मद्यतक्रपयोदध्नां स प्रेतो जायतेनरः। स्त्रीरक्तो मद्यपाने तु मृगयामनुधावति। नि-त्यनैमित्तिकेऽदाता स प्रेतो जायते नरः” अग्निपु॰। मनुष्याणाञ्च दाहादिक्रिययाऽतिवाहिकदेहानन्तरं प्रेत-देहो भवति यथाह विष्णुधर्मोत्तरे(
“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम्। षातिवाहिकसंज्ञोऽसौ देहो भवति भार्गव!। केवलंतन्मनुष्याणां नान्येषां प्राणिनां क्वचित्। प्रेतपिण्डै-स्ततो दत्तैर्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तंक्रमादेव न संशयः। प्रेतपिण्डा न दीयन्ते यस्य तस्यविमोक्षणम्। श्माशानिकेभ्यो देवेभ्य आकल्पं नैवविद्यते। तत्रास्य यातना घोराः शीतवातातपोद्भवाः। ततः सपिण्डीकरणे बान्धवैः स कृते नरः। पूर्णे संवत्सरेदेहमतोऽन्यं प्रतिपद्यते। ततः स नरके याति स्वर्गेवा स्वेन कर्मणा” शु॰ त॰।

५ प्राप्तपितृलोके
“अत ऊर्द्ध्वंसंवत्सरे संवत्सरे प्रेतायान्नं दद्यात्” गोभिलः
“प्रेतलोकंपरित्यज्य आगता ये महालये” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत¦ mfn. (-तः-ता-तं) Dead, deceased. m. (-तः)
1. A ghost, a goblin, a spirit, an evil being, especially animating the carcases of the dead.
2. The spirit before obsequial rites are performed. E. प्र be- fore, इत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत [prēta], p. p. [प्र-इ-क्त] Departed from this world, dead, deceased; स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते R.8.86.

तः The departed spirit, the spirit before obsequial rites are performed.

A ghost, evil spirit; प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः Bg.17.4; Ms.12.71.

The inhabitant of hell (नारक); शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत Mb.6.46.19.

The manes (पितर); प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ Ms.3.127. -Comp. -अधिपः an epithet of Yama. -अन्नम् food offered to the manes. -अयनः N. of a particular hell. -अस्थि n. the bone of a dead man. ˚धारिन् an epithet of Śiva. -आवासः a burialground, cemetery. -ईशः, -ईश्वरः an epithet of Yama.-उद्देशः an offering to the manes. -कर्मन् n., -कृत्यम्, -कृत्या obsequial or funeral rites; Ms.3.127. -कायः a corpse. -कार्यम् see प्रेतकर्मन्; तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत Mb.3.138.7. -गत a. dead. -गृहम् a cemetery.-गोपः the keeper of the dead. -चारिन् m. an epithet of Śiva. -दाहः the burning of the dead, cremation.-धूमः the smoke issuing from a funeral pile. -नदी the river वैतरिणी. -नरः a goblin, ghost. -निर्यातकः, -निर्हारकः a man employed to carry dead bodies; प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः Ms.3.166. -पक्षः 'the fortnight of the manes', N. of the dark half of Bhādrapada when offerings in honour of the manes are usually performed; cf. पितृपक्ष. -पटहः a drum beaten at a funeral. -पतिः Yama (the Indian 'Pluto'). -पात्रम् a vessel used in a Śrāddha ceremony. -पुरम् the city of Yama. -भावः death. -भूमिः f. a cemetery. -मेधः a funeral sacrifice. -राक्षसी the holy basil (तुलसी). -राजः an epithet of Yama. -लोकः the world of the dead; प्रेत- लोकं परित्यज्य आगता ये महालये Ulkādānamantra. -वनम् a cemetery. -वाहित a. possessed by a ghost. -शरीरम् the body of the departed spirit. -शुद्धिः f., -शौचम् purification after the death of a relative. -श्राद्धम् an obsequial offering made to a departed ralative during the year of his death.

हारः one who carries a dead body.

a near relative.

प्रेत [prēta] प्रेति [prēti] प्रेत्य [prētya], प्रेति प्रेत्य &c. See under प्रे.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत/ प्रे mfn. departed , deceased , dead , a dead person S3Br. Gr2S3rS. MBh.

प्रेत/ प्रे m. the spirit of a dead person ( esp. before obsequial rites are performed) , a ghost , an evil being Mn. MBh. etc. (See. RTL. 241 , 271 MWB. 219 ).

प्रेत/ प्रे etc. See. p. 711 , col. 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Preta, ‘departed,’ is used to denote a ‘dead man’ in the Śatapatha Brāhmaṇa,[१] but not in the sense of ‘ghost,’ which only appears later, in post-Vedic literature.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत पु.
(प्र + इण् गतौ + क्त) बिछुड़ा हुआ अथवा मृत, भा.पि.मे. 1.1.15।

  1. x. 5, 2, 13;
    Bṛhadāraṇyaka Upaniṣad, v. 11, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=प्रेत&oldid=503034" इत्यस्माद् प्रतिप्राप्तम्