प्रेतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रेतः, पुं, (प्र + इ गतौ + क्तः ।) नरकस्थप्राणी । इत्यमरः । ३ । ३ । ५९ ॥ भूतभेदः । मृते, त्रि । इति मेदिनी । ते, ३७ ॥ (यथा, मनुः । २ । २४७ । “आचार्य्ये तु खलु प्रेते गुरुपुत्त्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवत् वृत्तिमाचरेत् ॥”) वैदिकविधानेन और्द्धदेहिकाभावात् विष्णुद्बेषाच्च बहुनरकभोगान्ते प्रेतशरीरं भवति । यथा, -- लोमश उवाच । “ततो बहुतिथे काले स राजा पञ्चतां गतः । वैदिकेन विधानेन न लेभे सौर्द्धदेहिकम् ॥ विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम् । भुक्त्वा च यातनां यामीं निस्तीर्णनरको नृपः ॥ समया गिरिराजन्तु पिशाचोऽभूत्तदा महान् ॥” तस्य रूपं यथा, -- “देवद्युतिरधीयानः शुश्राव करुणामयः । समागत्य ततस्तत्र तं पिशाचं ददर्श सः ॥ विकरालमुखं दीनं पिशङ्गनयनं भृशम् । ऊर्द्ध्वमूर्द्धजकृष्णाङ्गं यमदूतमिवापरम् ॥ चलज्जिह्वञ्च लम्बोष्ठं दीर्घजङ्घशिराकुलम् । दीर्घाङ्घ्रिं शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्जरम् ॥” इति पाद्मोत्तरखण्डे १६ अध्यायः ॥ * ॥ सेवकायापद्रुतो यः सेवकस्त्वपरिग्रहः । ताबुभावपि जायेते प्रेतौ कालान्नकिंप्रदः ॥ द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्बिजस्य तु । शूद्रेणैव द्बिजः प्रेतो निरयानुपगच्छति ॥ गीतवाद्यरतो नित्यं मद्यपस्त्रीनिषेवणात् । द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः ॥ वृथारेतो वृथामांसो वृथावादी वृथामतिः । निन्दको द्बिजदेवानां स प्रेतो जायते नरः ॥ वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै । कन्यां ददाति शुल्केन स प्रेतो जायते नरः । न्यासापहर्त्ता मित्रध्रुक् परपाकरतस्तथा । विश्रम्भघाती कूटश्च स प्रेतो जायते नरः ॥ निर्द्दोपान् सुहृदो नारीस्त्यजेत् कालान्न पाति यः । धनमीहेत यस्तेषां स प्रेतो जायते नरः ॥ हस्त्यश्वरथयानानि मृतशय्यासनादि यः । कृष्णाजिनञ्च गृह्णाति अनापत्सु गतो द्विजः ॥ तथोभयमुखीं कालं सशैलां मेदिनीं द्बिजः । कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा । मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्न मुच्यते ॥ ब्रह्महा गोवधी स्तेयी सुरापो गुरुतल्पगः । भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः ॥ लालासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा । योनिसङ्करकृच्चापि स प्रेतो जायते नरः ॥ विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु । गवां केशरिणां मोहात् विक्रयात् प्रेततां व्रजेत् ॥ कूटमाप्ये च तौल्येन क्रयं क्रीणाति विक्रयात् । मद्यतक्रपयोदध्नां स प्रेतो जायते नरः ॥ स्त्रीरक्तो मद्यमाने तु मृगयामनुधावति । नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः ॥” इत्यग्निपुराणम् ॥ * ॥ मनुष्याणां आतिवाहिकदेहानन्तरं प्रेतदेहो भवति । यथा, विष्णुधर्म्मोत्तरे । “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् । आतिवाहिकर्संज्ञोऽसौ देहो भवति भार्गव ! ॥ केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् । प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ! ॥ भोगदेहमिति प्रोक्तं क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ॥ श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥ ततः सपिण्डीकरणे बान्धवैः स कृते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥ ततः स नरके याति स्वर्गे वा स्वेन कर्म्मणा ॥” इति शुद्धितत्त्वम् ॥
