प्रेतकार्य्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रेतकार्य्यम्, क्ली, (प्रेताय प्रेतस्य वा कार्य्यम् ।) नृतस्य दाहादिसपिण्डीकरणान्तं कर्म्म । यथा, “अकृत्वा प्रेतकार्य्याणि प्रेतस्य धनहारकः । वर्णानां यद्वधे प्रोक्तं तद्व्रतं नियतश्चरेत् ॥” इति दायतत्त्वम् ॥ (यथाच महाभारते । १ । १०२ । ६५ । “धर्म्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः । प्रेतकार्य्याणि सर्व्वाणि तस्य सम्यगकारयत् ॥”)
