प्रेततर्पण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रेततर्पणम्, क्ली, (प्रेतस्य तर्पणम् ।) मरणावधि- सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् । यथा । “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो- पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणं प्रतीयते ॥ तदनुष्ठानं यथा । अपः सर्व्वे शव- स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती- यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहा भवति । एतेन अमुकगोत्रं प्रेतं अमुकदेव- शर्म्माणं तर्पयामि । इति सामगानां प्रयोगः । यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन् तृप्यस्व । इति सम्बोधनान्तवाक्यम् ।” इति शुद्धितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रेततर्पण¦ न॰
६ त॰। मृगोद्देशेन् वर्षपर्य्यन्तं प्रेतशब्दोल्ले-खेन कर्त्तव्ये तर्पणविशेषे तद्विधानं शु॰ ति॰ यथा( मिश्राचार्य्यपृथ्वीधरधृतविष्णुसूत्रम्
“अतः सर्वेशवस्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तंतर्पयेयुः पितृशब्दोच्चारेण पितृहा भवति”। शाता-तपः
“प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इतिप्रेतान्तेति तत्पुरुषः न बहुव्रीहिः सर्वजघन्यत्वात्तेन प्रेतान्तनाम--गोत्रञ्चेति समासः एतद्वचनाच्चितापि-ण्डदाने उपतिष्ठतामिति पितृदयितायामप्युक्तम्। एतेनप्रेतकार्ये समन्धार्थकपदप्रयोगो मैथिलोक्तो हेयः। एते-नामुकगोत्रममुकदेवशर्माणं तर्पयामीति मामगानां प्र-योगः। अत्र प्रेततर्पणे सतिलांस्त्विति विशेषापादानात्सूर्य्यादिवारेऽपि तिलैरेव तर्पणं प्रतीयते। व्यक्तमाह{??}दनपारिजातधृता स्मृतिः
“अयने विषुवे चैव संक्रान्त्यां[Page4535-b+ 38] ग्रहणेषु च। उपाकर्मणि चोत्सर्गे युगादौ मृतवा-सरे। सूर्य्यशुक्रादिवारे च न दोषस्तिलतर्पणे”। तथा
“तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्वदा”। तिथिवि-शेषे अमावस्यादशहरादौ। अत्र दक्षिणाङ्गुष्ठसहित-मध्यमादिना वामहस्ते तिलदानं
“वामहस्ते तिलान्दत्त्वा जलमध्ये तु तर्पयेत्। मुक्तहस्तन्तु कर्त्तव्यं नमुद्रां तत्र दर्शयेत्” इति विद्याकरधृतवचने वामहस्तइति सप्तम्यन्तश्रवणात्
“तिलान् संमिश्रयेज्जले” इतितिलाधिकरणमुपक्रम्याभिधानाच्च।
“सव्येन च तिलाःग्राह्याः” इत्यत्रापि वामहस्ते स्थाप्या इत्यर्थः। सव्येनेतिस्थाल्या पचतीतिवदधिकरणे तृतीया
“विवक्षातो हिकारकाणि भवन्ती” त्युक्तेः। मुद्रा अङ्गुष्ठतर्जन्यात्मकयोग-रूपा तिलग्रहणायेति शेषः”।
