सामग्री पर जाएँ

प्रेततर्पणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेततर्पणम्, क्ली, (प्रेतस्य तर्पणम् ।) मरणावधि- सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् । यथा । “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो- पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणं प्रतीयते ॥ तदनुष्ठानं यथा । अपः सर्व्वे शव- स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती- यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहा भवति । एतेन अमुकगोत्रं प्रेतं अमुकदेव- शर्म्माणं तर्पयामि । इति सामगानां प्रयोगः । यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन् तृप्यस्व । इति सम्बोधनान्तवाक्यम् ।” इति शुद्धितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेततर्पणम्&oldid=152248" इत्यस्माद् प्रतिप्राप्तम्