सामग्री पर जाएँ

प्रेतदेहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतदेहः, पुं क्ली, (प्रेतस्य देहः ।) प्रेतशरीरम् । यथा, -- “कृते सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरीयवचनम् ॥ पूरकपिण्डदानेन तदुत्पत्तिर्यथा, -- “शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा । द्बितीयेन तु कर्णाक्षिनासिकास्तु समासतः ॥ गलांसभुजवक्षांसि तृतीयेन यथाक्रमात् । चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च ॥ जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा । सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः ॥ दन्तलोमाद्यष्टमेन वीर्य्यश्च नवमेन तु । दशमेन च पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः ॥” इति शुद्धितत्त्वधृतकूर्म्मपुराणवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेतदेहः&oldid=152250" इत्यस्माद् प्रतिप्राप्तम्