प्रेतपक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रेतपक्षः, पुं, (प्रेतप्रियः पक्षः ।) गौणचान्द्रा- श्विनकृष्णपक्षः । तत्र मृतस्य पार्व्वणविधिना र्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् । यथा, -- “आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ॥ तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥ नभा वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥” इति । तत्र मृतस्य । “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥ अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥” इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त- व्यम् । इति मलमासतत्त्वम् ॥ * ॥ तत्र निषिद्ध- दिनेऽपि तिलतर्पणं कर्त्तव्यम् । यथा, स्मृतिः । “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥” इति च मलमासतत्त्वम् ॥
