सामग्री पर जाएँ

प्रेतपिण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतपिण्डः, पुं, (प्रेताय देयः पिण्डः ।) मरणावधि- सपिण्डीकरणपर्य्यन्तं प्रेतसम्प्रदानकपिण्डाकारा- न्नम् । यथा, -- “न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके । भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम् ॥” * ॥ तत्तत्पिण्डस्य प्रेताङ्गकरणत्वं यथा, ब्रह्मपुराणे । “शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा । द्वितीयेन तु कर्णाक्षिनासिकास्तु समासतः ॥ गलांसभुजवक्षांसि तृतीयेन तथा क्रमात् । चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च ॥ जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा । सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः ॥ दन्तलोमाद्यष्टमेन वीर्य्यञ्च नवमेन तु । दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः ॥” * ॥ तदकरणे दोषो यथा, -- “प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् । श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ॥” * ॥ पूरकपिण्डदानदेरितिकर्त्तव्यता यथा । पार- स्करः । प्रेताय पिण्डं दत्त्वा अवनेजनदान- प्रत्यवनेजनेषु नामग्राहं मृण्मये तां रात्रिं विहायसि क्षीरोदके निदध्युः प्रेतात्र स्नाहि पिब चेदं क्षीरमित्युच्चार्य्येति । अत्र दानशब्देन पिण्डदानमुक्तं बहुवचनात् । तेनावनेजनपिण्ड- दानप्रत्यवनेजनेषु नामग्राहं नाम गृहीत्वा प्रेतपिण्डानुष्ठानं समाप्यम् । विहायसि रात्रौ क्षीरोदके प्रेतात्र स्नाहि पिब चेदं क्षीरमित्यु- च्चार्य्य निदध्युः । “प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः । यत्नान्नवसु चान्येषु स एव प्रददाव्यपि ॥” * ॥ प्रथमपिण्डकर्त्तृनियमवत् प्रथमपिण्डद्रव्यनियम- माह शुनः पुच्छः । “प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् । सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा ॥ त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि । द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि ॥ एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते । द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा ॥ पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव च । अष्टमेऽष्टौ च नवमे नवैव दशमे दश ॥ येन स्युः पञ्चपञ्चाशत् तोनस्याञ्जलयः क्रमात् । तोयपात्राणि तावन्ति संयुक्तानि तिलादिभिः ॥” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतपिण्ड¦ पु॰ प्रेताय देयः पिण्डः। पूरकपिण्डे तस्य प्रेतस्यपिण्डरूपदेहविशेषपूरकत्वात् पूरकसंज्ञा यथोक्तं ब्रह्मपु॰
“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा। द्वितीयेनतु कर्णाक्षिनासिकास्तु समासतः। गलांसभुजवक्षांसितृतीयेन तथा क्रमात्। चतुर्थेन तु पिण्डेन नाभि-लिङ्गगुदानि च। जानुजङ्घे तथा पादौ प्रञ्चमेन तुसर्वदा। सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः। दन्त-लोमाद्यष्टमेन वीर्य्यं च नवमेन तु। दशमेन तु पूर्णत्वंतृप्तता क्षुद्विपर्य्ययः”।

"https://sa.wiktionary.org/w/index.php?title=प्रेतपिण्ड&oldid=372630" इत्यस्माद् प्रतिप्राप्तम्