सामग्री पर जाएँ

प्रेतशिला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतशिला, स्त्री, (प्रेतानां प्रेतेभ्यो वा या शिला ।) पिण्डदानार्थगयास्थितप्रस्तरविशेषः । यथा, -- ब्रह्मोवाच । “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता । प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥ धर्म्मेण धारिता भूत्यै सर्व्वदेवमयी शिला ॥ प्रेतत्वं ये गता नॄणां पित्राद्या बान्धवादयः । तेषामुद्धरणार्थाय यतः प्रेतशिला ततः ॥ अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा । तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ॥ गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः । मुण्डपृष्ठो गिरिस्तस्मात् सर्व्वदेवमयो ह्ययम् ॥ मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः । अरविन्दवनन्तेषु तेन चैवोपलक्षितः ॥ अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः । तस्माद्गिरिः क्रौञ्चपदः पितॄणां ब्रह्मलोकदः ॥ गदाधरादयो देवा आद्या आदौ व्यवस्थिताः । शिलारूपेण च व्यक्तास्तस्माद्देवमयी शिला । गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ * ॥ स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन च । पिण्डं दद्यादिमैर्म्मन्त्रैरावाह्य च पितॄन् परान् ॥ अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । तेषामावाहयिष्यामि दर्भपृष्ठे तिलोदकैः ॥ पितृवंशे मृता ये च मातृवंशे च ये मृताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ मातामहकुले ये च गतिर्येषां न जायते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अजातदन्ता ये केचित् ये च गर्भेषु पीडिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्ज्जिताः । स्वगोत्रे परगोत्रे या गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ अग्निदाहे मृता ये च सिंहव्याघ्रहताश्च ये । दंष्ट्रिभिः शृङ्गिभिर्व्वापि तेषां पिण्डं ददाम्यहम् ॥ अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे । विद्युच्चौरहता ये च तेषां पिण्डं ददाम्यहम् ॥ रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ असिपत्रवने घोरे कुम्भीपाके च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ पशुयोनिगता ये च पक्षिकीटसरीसृपाः । अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ असंख्ययातनासंस्था ये नीता यमशासने । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ जात्यन्तरसहस्राणि भ्रमन्तः स्वेन कर्म्मणा । मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ ये बान्धबाबान्धवा वा येऽन्यजन्मनि बान्धवाः । ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥ ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम । ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥ ये मे पितृकुले जाताः कुले मातुस्तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः । क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥ विरूपास्त्वामगर्भा ये ज्ञाताज्ञाताः कुले मम । तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा । मया गयां समासाद्य पितणां निष्कृतिः कृता ॥ आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ! । तन्मे साक्षी भवस्वाद्य अनृणोऽहमृणत्रयात् ॥” इति गारुडे गयामाहात्म्ये । ८५-८६ । अध्यायौ ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतशिला¦ स्त्री गयातीर्थस्थे प्रेतोद्धारणार्थे गुञ्जपृष्ठपर्वतादिस्थेशिलाभेदेवायुपु॰ गयाप्र॰। गरुडपु॰

८५ अ॰ तन्माहात्म्यादियथा
“येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता। प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि। धर्मेण धा-रिता भूत्यै सर्वदेवमयी शिला। प्रेतत्वं ये गता नृणांपित्राद्या बान्धवादयः। तेषामुद्धरणार्थाय यतः प्रेतःशिला ततः। अतोऽत्र मुन्यो भूपा राजपात्रादयःसदा। तन्यां शिकायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः। [Page4539-b+ 38] गयासुरस्य यन्मुण्डं तस्य वृष्ठे शिला यतः। मुण्डपृष्ठोगिरिस्तस्मात् सर्वदेवमयो ह्ययम्। मुण्डपृष्ठस्य पादेषुयतो ब्रह्मसरोमुखाः। अरविन्दवनन्तेषु तेन चैवो-पलक्षितः। अरविन्दगिरिर्नाम क्रौञ्चपादाङ्कितोयतः। तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः। गदाधरादयो देवा आद्या आदौ व्यवस्थिताः। शिला-रूपेण च व्यक्तास्तस्माद्देवमयी शिला। गयाशिरश्छा-दयित्वा गुरुत्वादास्थिता शिला। स्नात्वा प्रेतशिलादौतु चरणाम्बुसृतेन च। पिण्डं दद्यादिमैर्मन्त्रैरा-वाह्य च पितॄन् परान्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतशिला/ प्रे f. " stone of the dead " , N. of a stone near गयाon which पिण्डs are offered(See. पिण्ड) Ga1rud2aP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a part of the शिला at गया where पिण्ड is offered to the dead; here is प्रेतकुण्ड; फलकम्:F1: वा. १०८. १५, ६७.फलकम्:/F here Pretas receive offering; on the head of गया. फलकम्:F2: Ib. ११०. ६६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=प्रेतशिला&oldid=433460" इत्यस्माद् प्रतिप्राप्तम्