सामग्री पर जाएँ

प्रेतशौचम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतशौचम्, क्ली, (प्रेते सति प्रेतस्य वा शौचम् ।) मृतसंस्कारादि । यथा, -- याज्ञवल्क्य उवाच । “प्रेतशौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः । ऊनद्बिवर्षं निखनेन्न कुर्य्यादुदकन्ततः ॥ आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः । यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥ स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् । सप्तमाद्दशमाद्वापि ज्ञातयो ह्युपयन्त्यपः ॥ अप नः शोशुचदघमनेन पितृदिङ्मुखाः । एवं मातामहाचार्य्यप्रेतानाञ्चोदकक्रियाः ॥ कामोदकाः सखिपुत्त्रस्वस्रीयश्वशुरर्त्विजः । नामगोत्रेण ह्युदकं सकृत् सिञ्चन्ति वाग्यताः ॥ पाषण्डपतितस्तेना न कुर्य्युरुदकक्रियाम् । न ब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥ सुरापास्त्वात्मघातिन्यो नाशौचोदकभाजनाः । अतो न रोदितव्यं हि त्वनित्या जीवसंसृतिः ॥ क्रिया कार्य्या यथाशक्ति ततो गच्छेद्गृहान् प्रति । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ प्रवेशनादिकं कर्म्म प्रेतसंस्पर्शिनामपि । ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक् । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये । वैतालोपासनाः कार्य्याः क्रियाश्च श्रुतिचोदिताः ॥ आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि । अन्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति ॥ दश द्वादश वर्णानां तथा पञ्चदशैव च । त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् ॥ अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्व्वन्ते वास्यानूचानमातुलश्रोत्रियेषु च ॥ अनौरसेषु पुत्त्रेषु भार्य्यास्वन्यगतासु च । निवासराजनि तथा तदहः शुद्धिकारणम् ॥ हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । विषाद्यैश्च हतानाञ्च नाशौचं पृथिवीपते ॥ सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा । दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि हि कष्टायां सद्यःशौचं विधीयते ॥ कालोऽग्निः कर्म्ममृद्बायुर्म्मनो ज्ञानं तपो जलम् । पश्चात्तपो निराहारः सर्व्वेषां शुद्धिहेतवः ॥” इति गारुडे १०६ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेतशौचम्&oldid=152269" इत्यस्माद् प्रतिप्राप्तम्