सामग्री पर जाएँ

प्रेतश्राद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतश्राद्धम्, क्ली, (प्रेताय प्रेतोद्देश्यकं वा श्राद्धम् ।) प्रेतोद्देश्यकश्राद्धम् । तदनुष्ठानं यथा । तत्र गोभिलः । अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । उपतिष्ठतामित्यक्षय्य- स्थाने अभिरम्यतामिति विसर्गोऽभिरतो- ऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति । इति श्राद्धतत्त्वम् ॥ * ॥ तच्च नवश्राद्धं तत्तु साग्निक- कर्त्तव्यं चतुर्थपञ्चमनवमैकादशाहेषु प्रेतश्राद्धम् । यथा यमः । “चतुर्थे पञ्चमे चैव नवमैकादशे तथा । तदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥” इति श्राद्धविवेकः ॥ * ॥ साग्निनिरग्न्युभयकर्त्तव्यं आद्यश्राद्धादिसपिण्डी- करणान्तं श्राद्धम् । यथा, -- “द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडशम् ॥” इति श्राद्धतत्त्वम् ॥ * ॥ अम्बुघटश्राद्धम् । तत्तु संवत्सरं यावत् प्रत्यहं प्रेतोद्देश्यकान्नजलदानरूपम् । यथा । पार- स्करः । अहरहरन्नमस्मै ब्राह्मणायोदकुम्भञ्च दद्यात् पिण्डमप्येके निगृणन्ति । ददतीत्यर्थः । इति श्राद्धविवेकः ॥ * ॥ गयादितीर्थद्रव्यादिप्राप्ति- निमित्तमेकोद्दिष्टश्राद्धम् । यथा, -- “पितृयज्ञन्तु निर्व्वर्त्त्य मासिके श्राद्ध एव तु । श्राद्धं प्रतिरुचौ चैव मातापित्रोर्मृताहनि ॥ असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥ तेनाम्बुघटश्राद्धे मृताहविहितमासिके तथा विशिष्टतीर्थद्रव्यादिप्राप्तौ प्रेतश्राद्धकरणेच्छायां मातापित्रोर्म्मृताहनि च असपिण्डीकृतं प्रेत- मेकोद्दिष्टेन तर्पयेत् ।” इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतश्राद्ध¦ न॰ प्रेतोद्देश्यकं श्राद्धम्। प्रेतोद्देश्यके आद्यश्रा-द्धादिसपिण्डीकरणान्तश्राद्धे तस्य गौणकालादि ति॰ त॰उक्तम् यथा
“मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्या-द्विचक्षणः”। तथा श्रा॰ त॰ दर्शितं यथा
“षोडशश्राद्धानां यत्पतितं कृष्णैकादश्यां तत्कर्त्तव्यम्। तथा च लघुहारीतः
“श्राद्धविघ्ने समुत्पन्ने मृताहा-ऽविदिते तथा। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः”। विशेषत इत्यमावस्यापेक्षया तस्यामपि विघ्नादौ विधानात्। यथा हेमाद्रिधृतं षट्त्रिंशन्मतम्
“मासिके चाव्दिकेत्वह्नि संप्राप्ते मृतसूतके। वदन्ति शुद्धौ तत्कार्यं दर्शेचापि विचक्षणैः”। राजमार्त्तण्डे
“श्राद्धविघ्ने समुत्पन्नेअन्तरा मृतसूतके। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः। श्राद्धविघ्ने समुत्पन्ने मृतस्याबिदिते तथा। अमावस्यां प्रकुर्वीत वदन्त्येके मनीषिणः”। अत्र मृतसू-तकोपदानात् ऋष्यशृङ्गवचनेऽशौचपदमेतत्परम्। यत्त्व-न्तरा मृतसूतकेऽप्येकादश्यां श्राद्धविधानं तत्
“देये पितृणांश्राद्धे तु अशौचं जायते यदि। तदशौचे व्यतीते तुतेषां श्राद्धं विधीयते। शुचीभूतेन दातव्यं या तिथिःप्रतिपद्यते। सा तिथिस्तस्य कर्त्तव्या नत्वन्या वै कदा-चन” इति ऋस्यशृङ्गवचन विरोधात् अशौचान्तदिनेमलमासादिरूपविघ्नान्तरेण तदकरणे। अतएव श्राद्धवि-वेके अपाटवाद्यशौचाभ्यामपि पतितमेकोद्दिष्टमेकादश्या-मशौचान्ते च मलमासे न कर्त्तव्यं किन्तु मलमासाव्या-प्रकृष्णैकादश्यामेवेत्युक्तम्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेतश्राद्ध/ प्रे n. the obsequial ceremonies performed for a relative at death and every month for a year and at every anniversary after death.

"https://sa.wiktionary.org/w/index.php?title=प्रेतश्राद्ध&oldid=372769" इत्यस्माद् प्रतिप्राप्तम्