सामग्री पर जाएँ

प्रेमभक्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रेमभक्तिः, स्त्री, (प्रेम्णा भक्तिः ।) स्नेहयुक्त- श्रीकृष्णसेवा । विष्ण्वैकान्तिकममता । तल्लक्षणं यथा, नारदपञ्चरात्रे । “अनन्यममता विष्णौ ममता प्रेमसंप्लुता । भक्तिरित्युच्यते भीष्म ! प्रह्लादोद्धवनारदैरिति ॥ प्रेमभक्तेश्च माहात्म्यं भक्तेर्म्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥” * ॥ अथ प्रेमसम्पत्तिचिह्नानि यथा, भागवते ७ स्कन्धे ७ अध्याये श्रीप्रह्लादस्य बालानुशासने । “निशम्य कर्म्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ यदा ग्रहग्रस्त इव क्वचिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निर्द्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥” इति श्रीहरिभक्तिविलासे ११ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेमभक्तिः&oldid=152278" इत्यस्माद् प्रतिप्राप्तम्