सामग्री पर जाएँ

प्रोक्षितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रोक्षितम्, त्रि, (प्र + उक्ष + क्त ।) निहतम् । सिक्तम् । इति मेदिनी । ते, १३६ ॥ यज्ञार्थं मन्त्रैः संस्कृतमांसादि । यथा, -- “भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्ज्जयेत् ॥” आरण्यानामिदानीन्तनप्रोक्षणापेक्षा नास्ति । यथा, महाभारते । “आरण्याः सर्व्वदैवत्याः प्रोक्षिताः सर्व्वशो मृगाः । अगस्त्येन पुरा राजन् ! मृगया येन पूज्यते ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रोक्षितम्&oldid=152313" इत्यस्माद् प्रतिप्राप्तम्