प्रोतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रोतम्, क्ली, (प्र + वेञ् स्यूतौ + क्तः । यजादि- त्वात् सम्प्रसारणम् ।) वस्त्रम् । इति जटाधरः ॥
प्रोतम्, त्रि, (प्र + वेञ् + क्तः । यजादित्वात् सम्प्र- सारणम् ।) खचितम् । इति मेदिनी । ते, ३७ ॥ स्यूतम् । (यथा, श्रीकण्ठचरिते । १५ । २५ । “नीरन्ध्रमात्तपरिरम्भविजृम्भणस्य रम्भोरुभिः सह विलासिजनस्य कामः । प्रोतं विधातुमिव चेतसि रागसूत्रं रोमाञ्चसूचिनिचयं प्रचुरीचकार ॥”) गुम्फितम् । इति हेमचन्द्रः ॥
