प्रोथः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रोथः, पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ- पृष्ठगूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् निपातनात् गुणः । यद्वा, प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) अश्वनासिका । इत्य- मरः । २ । ८ । ४९ ॥ (यथा, माघे ११ । ११ । “रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥” शूकरनासिकापि । यथा, देवीभागवते । ५ । २८ । २५ । “वाराही शूकराकारा गूढप्रोथा सटाभृता ॥”)
प्रोथः, पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । यद्वा, प्रुङ् गतौ + “तिथपृष्ठमूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् । निपानात् गुणः ।) कटी । इति मेदिनी । थे, १० ॥ शाटकः । इति त्रिकाण्डशेषः ॥ स्त्रीगर्भः । इति विश्वः ॥ गर्त्तः । भीषणम् । स्फिक् । अश्वमुखम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥
प्रोथः, त्रि, (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा ० २ । १२ । इति थक् । निपातनात् गुणः ।) अध्वगः । इति मेदिनी । थे, १० ॥ प्रथितः । इति त्रिकाण्डशेषः ॥ स्थापितः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥
