सामग्री पर जाएँ

प्रोषितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रोषितः, त्रि, (वस् + क्त । इट् । सम्प्रसारणम् । प्रकृष्टदूरं उषितः ।) प्रवासगतः । यथा, -- “आर्त्तार्त्ते मुदिता हष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया परिव्रता ॥” इति शुद्धितत्त्वम् ॥ (दूरीभूतः । यथा, कलाविलासे । १ । १४ । “पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते । तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रोषितः&oldid=152337" इत्यस्माद् प्रतिप्राप्तम्