सामग्री पर जाएँ

प्रोषितभर्त्तृका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रोषितभर्त्तृका, स्त्री, (प्रोषितो विदेशगतो भर्त्ता यस्याः । समसान्तकप्प्रत्ययः ।) विदेशस्य- पतिका । इति जटाधरः ॥ स्वीयादिनायिका- भेदः । तस्या लक्षणं यथा । देशान्तरे गते भर्त्तरि सन्तापाकुला प्रोषितभर्त्तृका । अस्या- श्चेष्टा दशावस्था । यथा । पत्यभिलाषः १ चिन्ता २ स्मृतिः ३ गुणोत्कीर्त्तनम् ४ उद्वेगः ५ विलापः ६ उन्मादः ७ व्याधिः ८ जडता ९ निधनम् १० । मुग्धा प्रोषितभर्त्तृका यथा, -- “दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषते शैवालैः शयनं सृजन्त्यपि पुनः शेते न वा लज्जया । कण्ठे गद्गदवाचमञ्चति दृशा धत्ते न वास्पोदकं सन्तापं सहते यदम्बुजमुखी तद्बेद चेतोभवः ॥” मध्या प्रोषितभर्त्तृका यथा, -- “वासस्तदेव वपुषो वलयन्तदेव हस्तस्य सैव जघनस्य च रत्नकाञ्ची । वाचालभृङ्गसुभगे सुरतौ समस्त- मद्याधिकं भवति तत् सखि किन्निदानम् ॥” प्रगल्भा प्रोषितभर्त्तृका यथा, -- “माला बालाम्बुजदलमयी मौक्तिकी हार- यष्टिः काञ्ची स्थानात् प्रसरति हरौसुभ्रुवः प्रस्थितैव । अन्यद्ब्रूमः किमपि धमनी विद्यते वा नवेति ज्ञातुं बाह्वोरहह वलयं पाणिमूलं प्रयाति ॥” परकीया प्रोषितभर्त्तृका यथा, -- “श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते सद्यो मर्म्मरशङ्कया न च तया संस्पृश्यते पाणिना । यातुर्व्वाचि सुहृज्जनस्य वचसा प्रत्युत्तरं दीयते श्वासः किन्तु न मुच्यते हुतवहक्रूरः कुरङ्गी- दृशा ॥” सामान्यवनिता प्रोषितभर्त्तृका यथा, -- “विरहविदितमन्तःप्रेम विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति । भरिचनिचयमक्ष्णोर्न्यस्य वास्पोदबिन्दून् सृजति च पुरयोषिद्द्वारदेशोपविष्टा ॥” इति रसमञ्जरी ॥ (अस्याः अकर्त्तव्यं यदुक्तं चिन्तामणौ तद्यथा, “हास्यं परगृहे यानं समाजोत्सवदर्शनम् । क्रीडां शरीरसंस्कारं त्यजेत् प्रोषितभर्त्तृका ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रोषितभर्त्तृका&oldid=152338" इत्यस्माद् प्रतिप्राप्तम्