प्रोष्ठः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रोष्ठः, पुं, (प्रकृष्ट ओष्ठोऽस्येति । “ओत्वोष्ठयोः समासे वा ।” १ । १ । ६४ । इत्यस्य वार्त्ति- कोक्त्या साधुः ।) प्रोष्ठीमत्स्यः । इत्यमरटीकायां रायमुकुटः ॥ (जनपदविशेषः । यथा, महा- भारते । ६ । ९ । ६१ । “व्यूढकाः कोरकाः प्रोष्ठाः समवेगवशास्तथा ॥” गौः । इति सिद्धान्तकौमुदी । ५ । ४ । १२० ॥)
