सामग्री पर जाएँ

प्रोष्ठपदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रोष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादौ यस्य सः । “सुप्रातसुश्वसुदिवेति ।” ५ । ४ । १२० । इति अच् प्रत्ययेन साधुः । प्रोष्ठपदो नक्षत्रविशेषस्तद्युक्ता पौर्णमासी यत्र मासे । अण् । पक्षे न वृद्धिः ।) भाद्रमासः । इत्यमरः ॥ (नक्षत्रविशेषः । यथा, महाभारते । ६ । ३ । १४ । “शूक्रः प्रोष्ठपदे पूर्ब्बे समारुह्य विरोचते ॥” यथा च मार्कण्डेये । ३३ । १५ । “अजाविकं प्रोष्ठपदे विन्देद्धावांस्तथोत्तरे ॥” गोतुल्यपदयुक्ते, त्रि । इति व्याकरणम् ॥)

"https://sa.wiktionary.org/w/index.php?title=प्रोष्ठपदः&oldid=152342" इत्यस्माद् प्रतिप्राप्तम्