प्रोष्ठपदाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रोष्ठपदाः, स्त्री, (प्रोष्ठो गौस्तस्येव पादा यासाम् । “सुप्रातसुश्वेति ।” ५ । ४ । १२० । इति बहु- व्रीहावच् पद्भावश्च निपातितः ।) पूर्ब्बभाद्रपद- नक्षत्रम् २५ । उत्तरभाद्रपदनक्षत्रम् २६ । तत्पर्य्यायः । भाद्रपदाः २ । इत्यमरः । १ । ३ । २२ ॥ द्बे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु प्रोष्ठो गौः भद्रश्च गौः तस्येव पाद आसां तास्तथा । पूर्ब्बे प्रोष्ठपदे द्वे उत्तरे तु भाद्रपदे द्बे समुदायश्चासां चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ- पदे कदा उत्तरे प्रोष्ठप्रदे इति तारकयोर्द्वित्वा- द्द्विवचनम् । इति भरतः ॥ भाद्रपदशब्देन तारकाविशेषाणां समुदाय उच्यते तिरोहिता- वयवभेदपक्षे एकवचनम् । प्रोष्ठपदाशब्दस्तू- द्रिक्तावयवभेदपक्षे बहुवचनमिति मैत्रेयः । इति रायमुकुटः ॥
