सामग्री पर जाएँ

प्रौढम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रौढम्, त्रि, (प्रोह्यते स्मेति । प्र + वह् + क्तः । सम्प्र- सारणम् । “प्रादूहोढोढ्येषैष्येषु ।” इति वृद्धिः ।) वर्द्धितम् । तत्पर्य्यायः । प्रवृद्धम् २ एधितम् ३ । इत्यमरः । ३ । १ । ७६ ॥ (यथा, मेघदूते । २७ । “त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥”) प्रगल्भः । इति हेमचन्द्रः । ६ । १३१ ॥ (यथा, रघुः । ९ । ५८ । “त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रिया नयनविभ्रमचेष्टितानि ॥”) निपुणः । इति राजनिर्घण्टः ॥ (यथा, भाग- वते । ३ । २ । ९ । “ईङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ॥”) प्रकर्षेण ऊढश्च ॥

"https://sa.wiktionary.org/w/index.php?title=प्रौढम्&oldid=152352" इत्यस्माद् प्रतिप्राप्तम्