सामग्री पर जाएँ

प्रौढा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रौढा, स्त्री, (प्रौढ + टाप् ।) नायिकाभेदः । तत्- पर्य्यायः । चिरिण्टी २ सुवयाः ३ श्यामा ४ दृष्टरजाः ५ । इति राजनिर्घण्टः ॥ यथा, -- “बाला तु तरुणी प्रौढा वृद्धा भवति नायिका । गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा ॥” त्रिंशद्बर्षादूर्द्घं पञ्चपञ्चाशद्वर्षपर्य्यन्तं प्रौढा- वस्था । यथा, -- “आषोडशी भवेद्बाला तरुणी त्रिंशता मता । पञ्चपञ्चाशती प्रौढा भवेद्वृद्धा ततः परम् ॥” अस्या वश्यत्वकारणं यथा, -- “अलङ्कारादिभिर्ब्बाला तरुणी रतियोगतः । प्रेमदानादिभिः प्रौढा वृद्धा च दृढताडनात् ॥” तस्या रमणे दोषो यथा, -- “बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणदा भवेत् ॥” इति रतिमञ्जरी ॥ मुग्धादित्रिविधान्तर्गतप्रगल्भा नायिका । तत्र प्रोढा खण्डिता यथा, -- “मामुद्बीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकै- रालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् । रूक्षं नोक्तवती न वा कृतवती निश्वासकोष्णा- दृशः प्रातर्मङ्गलमङ्गला करतलादादर्शमादर्शयत् ॥” प्रौढा कलहान्तरिता यथा, -- “अकरोः किभु नेत्रशोणिमानं किमकार्षीः करपल्लवे निरोधम् । कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदुष्टाः ॥” प्रौढा उत्कण्ठिता यथा, -- “भ्रातर्निकुञ्जसखियूथिरश्चालबन्धो मातस्तमस्विनि पितस्तिमिर प्रसीद । पृच्छामि किञ्च नवनीरधराभिरामो दामोदरः कथय किं न समाजगाम ॥” प्रौढा वासकसज्जा यथा, -- “कृतं वपुषि भूषणं चिकुरधोरणी धूपिता कृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः । अकारि हरिणीदृशा भवनमेत्य देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्द्दिनम् ॥” प्रौढाभिसारिका यथा, -- “स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन । अथ कथय कथं सहेत गन्तुं यदि न निशासु मनोरथो रथः स्यात् ॥” प्रौढा प्रवत्स्यत्पतिका यथा, -- “नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर- स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं वद । ताम्बूलं कुसुमं पटीरमुदकं यद्बन्धुभिर्दीयते तत् स्यादत्र परत्र वा किमु विषज्वालावली- दुःसहम् ॥” इति रसमञ्जरी ॥ अन्यत् प्रगल्भाशब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रौढा/ प्रौ f. a married woman from 30 to 55 years of age W.

"https://sa.wiktionary.org/w/index.php?title=प्रौढा&oldid=374750" इत्यस्माद् प्रतिप्राप्तम्