सामग्री पर जाएँ

प्लक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लक्षः, पुं, (प्लक्ष्यते भक्ष्यते विहगादिभिरिति । प्लक्ष + कर्म्मणि घञ् ।) वृक्षविशेषः । पाकुड इति भाषा । तत्पर्य्यायः । जटी २ पर्कटी ३ । इत्य- मरः ॥ पर्कटिः ४ प्लक्ष ५ प्लीक्षा ६ जटिः ७ । इति शब्दरत्नावली ॥ कपीतनः ८ क्षीरी ९ सुपार्श्वः १० कमण्डलुः ११ शृङ्गी १२ अव- रोहशाखी १३ गर्द्दभाण्डः १४ कपीतकः १५ दृढप्ररोहः १६ प्लवकः १७ प्लवङ्गः १८ महा- बलः १९ ॥ ह्रस्वप्लक्षपर्य्यायः । सूक्ष्मः २० सुशीतः २१ शीतवर्य्यकः २२ पुण्ड्रः २३ महा- वरोहः २४ ह्रस्वपर्णः २५ पिम्बरिः २६ भिदुरः २७ मङ्गलच्छायः २८ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोष- मूर्च्छाभ्रमप्रलापनाशित्वञ्च । इति राजनि- र्घण्टः ॥ व्रणयोनिगददाहपित्तकफशोथरक्त पित्तनाशित्वम् । पर्कटी च स्त्रियामपि । इति भावप्रकाशः ॥ कन्दरालवृक्षः । द्बीपभेदः । अश्वत्थवृक्षः । इति मेदिनी । षे, १७ ॥ पक्षकः । इति हेमचन्द्रः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लक्षः [plakṣḥ], [प्लक्षते कीटैः प्लक्ष्-कर्मणि घञ्]

The Indian fig-tree; प्लक्षप्ररोह इव सौधतलं विभेद R.8.93;13.71; कपित्थैः किंशुकैः प्लक्षैः Parṇāl.4.62.

One of the seven Dvīpas or continents of the world; प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः Purāṇam.

A side or back-door, a private entrance.

The space at the side of a door. -Comp. -जाता, -समुद्रवाचका an epithet of the river Sarasvatī. -तीर्थम्, -प्रस्रवणम्, -राज् -m. the place where the Sarasvatī rises. -द्वारम् a back-door, a side-entrance; Matsya P.264.15.

"https://sa.wiktionary.org/w/index.php?title=प्लक्षः&oldid=374879" इत्यस्माद् प्रतिप्राप्तम्