सामग्री पर जाएँ

प्लवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लवः, पुं, (प्लु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) प्लवनम् । (यथा, हरिवंशे । १२२ । १०१ । “सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् । सर्व्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ॥” प्लूयतेऽनेनेति करणे अप् ।) भेलः । (यथा, मुण्डकोपनिषदि । १ । २ । ७ । “प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥” प्लवते सन्तरतीति । प्लु + अच् ।) भेकः । अविः । श्वपचः । कपिः । जलकाकः । (यथा, सुश्रुते । १ । ४६ । “प्लवानामिक्षुरसासवः ॥”) कुलकः । प्रवणः । पर्कटीद्रुमः । कारण्डवविहगः । शब्दः । प्रतिगतिः । इति मेदिनी । वे, १६ ॥ प्रेरणम् । शत्रुः । इति शब्दरत्नावली ॥ जलान्त- रम् । इति हेमचन्द्रः । ३ । ५४३ ॥ पलवः । इति त्रिकाण्डशेषः ॥ पोलो इति भाषा ॥ जलकुक्कुटः । इति मिताक्षरा ॥ (यथा, मनौ । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् । सारसं रज्जुवालञ्च दात्यूहं शुकसारिके ॥” वकविशेषः । यथा, रामायणे । २ । १०३ । ४३ । “रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे । तथा पुंस्कीकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥” “प्लवा वकविशेषाः ।” इति तट्टीकायां रामा- नुजः ॥) जलचरपक्षिमात्रम् । यथा, -- “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा वलाकाद्याः प्लवाः स्मृताः ॥ प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥” एतेषां मांसगुणाः । “प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=प्लवः&oldid=152370" इत्यस्माद् प्रतिप्राप्तम्