प्लवङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लवङ्गः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम + “गमश्च ।” ३ । २ । ४७ । इति खच् । “खच्च डिद्वा वाच्यः ।” इति डित् । डित्वात् टेर्लोपः । मुमागमः ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, रामायणे । २ । २५ । १८ । “प्लवङ्गा वृश्चिका दंशा मशकाश्चैव कानने । सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥” “प्लवङ्गा वानराः ।” इति तट्टीकायां रामा- नुजः ॥) मृगः । इति शब्दचन्द्रिका ॥ प्लक्षवृक्षः । इति राजनिर्घण्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लवङ्ग पुं।
वानरः
समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि
2।5।3।1।2
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लवङ्ग¦ पु॰ प्लवन् सन् गच्छति गम--ड खच् मुम् नि॰।
१ वानरे
२ मृगे शब्दच॰।
३ प्लक्षवृक्षे राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लवङ्ग¦ m. (-ङ्गः)
1. A monkey.
2. A deer. E. प्लव leaping, गम् to go, aff. खच् with the power of ड, whence the nasal is inserted, and final syllable rejected; also प्लव, प्लवग, and प्लवङ्गम |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लवङ्गः [plavaṅgḥ], 1 An ape, a monkey.
A deer.
The fig-tree.
N. of a संवत्सर.