प्लीहारिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लीहारिः, पुं, (प्लीहाया अरिः शत्रुस्तन्नाशक- त्वात् ।) अश्वत्थवृक्षः । इति शब्दचन्दिका ॥ (प्लीहनाशकवटिकौषधविशेषः । यथा, -- “द्विकर्षं लौहभस्मापि कर्षं ताम्रं प्रदापयेत् । शुद्धसूतं तथा गन्धं कर्षमानं भिषग्वरः ॥ मृगाजिनं पलं भस्म लिम्पाकाङ्घ्रित्वचः पलम् । एवं भागक्रमेणैव कुर्य्यात् प्लीहारिसंज्ञकम् ॥ नवगुञ्जामितं खादेदथ नित्यं हि पूतवान् । प्लीहानं यकृतं गुल्मं हन्त्यवश्यं न संशयः ॥” इति प्लीहारिरसः ॥ * ॥ इति वैद्यकरसेन्द्रसंग्रहे प्लीहाधिकारे ॥)
