सामग्री पर जाएँ

प्लुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुतम्, क्ली, (प्लु + क्तः ।) अश्वगतिविशेषः । स च त्वरया झम्पेन गतिः । इत्यमरभरतौ ॥ (यथा, अश्ववैद्यके । ३ । १३२ । “अथ यः पुच्छतोऽश्वस्य शनैरविशदो ध्वनिः । अन्तरुत्पद्यते कश्चित्तदश्वप्लुत उच्यते ॥”) तिर्य्यग्गतिः । इति कलिङ्गः ॥ (यथा, कथा- सरित्सागरे । २७ । १५६ । “तिर्य्यञ्चस्तिर्य्यगेवास्य पेतुर्वक्रप्लुता मृगाः ॥”)

प्लुतः, पुं, (प्लुतं प्लुतवद्गतिरस्यास्तीति । प्लुत + अच् ।) त्रिमात्रवर्णः । इति मेदिनी । ते, ३५ ॥ यथा, -- “एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥” इति दुर्गादासादिधृतप्राचीनकारिका ॥ (तथाच । “दूराह्वाने च गाने च रोदने च प्लुतो मतः ॥” इति च दुर्गादासधृतवचनम् ॥ प्लु + क्तः ।) झम्पगतियुक्ते, त्रि ॥ (यथा, हरिवंशे । ९८ । ८४ । “रामादनन्तरं कृष्णः प्लुतो वै वीर्य्यवांस्ततः । ताभ्यामेव प्लुताभ्याञ्च चरणैस्ताडितो गिरिः ॥” अन्तर्णिजर्थत्वात् प्लावितः । यथा, बृहत्संहिता- याम् । ५ । ४४ । “सव्यगते तमसि जगज्जलप्लुतं भवति मुदित- मभयञ्च ॥” सिक्तः । यथा, याज्ञवल्क्ये । १ । २३५ । “अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥” व्याप्तः । यथा, भागवते । ३ । २ । १४ । “यस्यानुरागप्लु तहासरास- लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त- धियोऽवतस्थुः किल कृत्यशेषाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुत नपुं।

अश्वगतिविशेषः

समानार्थक:आस्कन्दित,धौरितक,रेचित,वल्गित,प्लुत

2।8।48।2।5

निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमश्ववत्. आस्कन्दितं धौरितकं रेचितम्वल्गितं प्लुतम्.।

वैशिष्ट्य : अश्वः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुत¦ न॰ प्लु--भावे क्त।

१ अश्वगतिभेदे अमरः।

२ तिर्य्यग्-गतौ

३ लम्फेन गतौ त्रिमात्रकालेनोक्कार्ये वर्णे पु॰
“एक-मात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तुप्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” प्रचीनकारिका। अस्यह्रस्वदीर्घाणामिवाकारभेदाभावेन तदुत्तरवर्त्तित्र्यङ्क नैवतथात्वसूचनं न तु लेखनेऽस्याकारविशेषोऽस्ति। प्लुतत्वविधायकानि पा॰ सूत्राणि सवृत्तिकानि सोदहरणान्यत्रप्रदर्श्यन्ते
“वाक्यस्य प्लुत उदात्तः” पा॰ इत्यधिकृत्य
“प्रत्यभिवादेऽशूद्रे” पा॰
“अशूद्रविषये प्रत्यभिवादे यद्-वाक्यं तस्य टेः प्लुतः स्यात्। अभिवादये देवदत्तोऽहम्। भो आयुष्मानेधि देवदत्त!

३ । स्त्रियान्न अभिवादये गा-र्ग्वहं भो आयुष्मनेधि गार्घि!। नामगोत्रं वा यत्रप्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते नेहआयुष्मानेधि भोः। राजन्यविशाञ्चेति वाच्यम्। आयुष्मा-नेधि भोः। आयुष्मानेधीन्द्रवर्म

३ आयुष्मानेधीन्द्रपालित

२ । [Page4545-a+ 38] सि॰ कौ॰
“दूराद्धूते च” पा॰।
“दूरात् सम्बोधने यद्वा-क्यन्तस्य टेः प्लुतः स्यात्। सक्तून् पिब देवदत्त

 !
“है हेप्रयोगे हैहयोः” पा॰। एतयोः प्रयोगे दूराद्धूते यद्वा-क्यन्तत्र हैहयोरेव प्लुतः। स्यात्। है

३ राम! राम! है


“गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” पा॰ दूराद्धूतेयद्वाक्यन्तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात्। दे

३ वदत्त। देवद

३ त्त। देवदत्त

३ । गुरोः किम्। वकारात्परस्य अकारस्य मा भूत्। अनृतः किम्। कृष्ण

३ । एकैक-ग्रहणं पर्य्यायार्थम्। इह प्राचामिति योगो विभज्यतेतेन सर्वः प्लुतो विकल्प्यते
“अप्लुतवदुपस्थिते” पा॰। उपस्थितोऽनार्ष इतिशब्दस्तस्मिन् परे प्लुतोऽप्लु तवद्भ-वति। अप्लुतकार्यं यणादिकङ्करोति। सुश्लोक

३ इति। सुश्लोकेति। वत् किम् अप्लुत इत्युक्ते प्लुत एव नि-षिध्येत तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणन्नस्यात्। अग्नी

३ इति।
“इ

२ चाक्रवर्मणस्य” पा॰ इ

३ प्लुतो-ऽचि परेऽप्लुतवद्वा स्यात्। चिनुहीति चिनु हि

३ इति। चिनु हि

३ इदं चिनुहौदम्। उभयत्र विभा-षेयम्
“ओमभ्यादाने” पा॰ ओशिब्दस्य प्लुतः स्यात् आ-रम्भे। ओ

३ म् अग्निमीले पुरोहितम्। अभ्यादानेकिम् ओमित्येकाक्षरम्
“ये यज्ञकर्मणि” पा॰ ये

३ यजा-महे। यज्ञेति किम् ये यजामहे


“प्रणवष्टेः” पा॰यज्ञकर्मणि टेरोमित्यादेशः स्यात्। अपां रेतांसि जिन्व-तो

३ म्। टेः किम् हलन्ते अन्त्यस्य मा भूत्।
“याज्यान्तः” पा॰ ये याज्यान्ता मन्त्रास्तेषामन्त्यस्यटेः प्लु तो यज्ञ-कर्मणि। जिह्वामग्ने! चकृषे हव्यवाह

३ । अन्तः किम्। याज्यानामृचां वाक्यससुदायरूपाणां प्रतिवाक्यं टेर्नस्यात्। सर्वान्तस्य चेष्यते
“ब्रूहिप्रेष्यश्रौषड्वौषडा-वाहनामादेः” पा॰ एषासादेः प्लुतो यज्ञकर्मणि। अ-ग्नयेऽनुब्रू

३ हि। अग्नये गोमयानि प्रे

३ ष्य। अस्तु श्रौ

३ षट्। सोमस्याग्ने ब्रूहि वौ

३ षट्। अग्निमा

३ वह
“अग्नीत् प्रेषणे परस्य च” पा॰ अग्नोधः प्रेषणे आदेर्यःप्लुतस्मात् वरस्य च। ओ

३ आवह नेह अग्नीदग्नीन्विहर

३ । बर्हिस्तृणीहि

३ ।
“विभाषा पृष्टप्रतिवचनेहेः” पा॰ प्लुतः। अकार्णीः कटम् अकार्सं हि

३ । अकार्षंहि। पृष्टेति किम् कटं करिष्यति हि

३ । हेः किम्करोमि ननु
“निगृह्यानुयोगे च” पा॰ अत्र यद्वा-क्यन्तस्य टेः प्लुतो वा। अद्यामावास्येत्यात्य

३ । अद्यअमावास्येत्येवंवादिनं युक्त्या स्वमयात प्रच्याव्य एवमनु-[Page4545-b+ 38] युज्यत।
“आम्रेडितम्भर्त्सने” पा॰ दस्यो दस्यो

३ घात-मिष्यामि त्वाम्। आम्रेडितग्रहणं द्विरुक्तोपलक्षणम्। चौर

३ चौर।
“अङ्गयुक्तन्तिङाकाङ्क्षम्” पा॰ अङ्गेत्य-नेन युक्तन्तिङन्तं प्लवते। अङ्ग कूज

३ इदानीं ज्ञास्यसिजाल्म!। तिङ किम्? अङ्ग देवदत्त! मिथ्या वदसि

३ । आकाङ्क्षं किम् अङ्ग पच नैतदपरमाकाङ्क्षति। भर्त्-सन इत्येव। अङ्गाधीष्व भक्तन्तव दास्यामि।
“वि-चार्य्यमाणानाम्” पा॰ वाक्यानां टेः प्लुतः। होतव्यंदीक्षितस्य गृह

३ इ। (वक्ष्यमाणेन एतः स्थाने इः)न होतव्य

३ मिति। होतव्यन्न होतव्यमिति विचार्यते। प्रमाणैर्वस्तुतत्त्वपरोक्षणं विचारः।
“पूर्वन्तु भाषा-याम्” पा॰ वि{??}र्य्यमाणानां पूर्वमेव प्लवते। अहिर्नु

३ रज्जुर्नु। प्रयोगापेक्षत्वं पूर्वत्वम्। इह भाषाग्रह-णात् पूर्वयोगश्छन्दसीति ज्ञायते।
“प्रतिश्रवणे च” पा॰वाक्यस्य टेः प्लुतोऽभ्युपमे प्रतिज्ञाने श्रवणाभिमुख्येच! गां मेदेहि भो हन्त

३ ते ददामि

३ । नित्यःशब्दो भवितुमर्हति

३ । देवदत्त! किमात्थ

३ ।
“अनुदात्तंप्रश्नान्ताभिपूजितयोः” पा॰ अनुदात्तः प्लुतः स्यात्। दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधी-यते। अग्निभूत

३ इ। पट

३ उ। अग्निभूते पटो एतयोःप्रश्नान्ते टेरनुदात्तः प्लुतः। शोभनः खल्वसि

२ माणवक

३ ।
“चिदिति चोपमार्थे प्रयुज्यमाने” पा॰ वाक्यस्य टेर-नुदात्तः प्लुतः। अग्निचिद्भाया

३ त्। अग्निचिदिव भा-यात् उपमार्थे किम् कथञ्चिदाह। प्रयुज्यमाने किम्अग्निर्माणयको भायात्
“उपरिस्विदासीति च” पा॰टेः प्लुतोऽनुदात्तः स्यात्। उपरिस्विदासी

३ त्। अधःस्विदादी

३ दित्यत्र तु विचार्य्यमाणानामित्युदात्तः प्लुतः।
“स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु” पा॰ स्व-रितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये। असू-यायाम् अभिरूपक

३ अभिरूपक रिक्तन्त आभिरूप्यम्। सम्मतौ। अभिरूपक

३ अभिरूपक शोभनोऽसि। कोप। अविनीतक

३ अविनीतक इदानीं ज्ञास्यसि काल्म!। कुत्सने। शाक्तीक

३ शाक्तीक रिक्ता ते शक्तिः।
“क्षि-याशीःप्रैषेषु तिङाकाङ्क्षम्” पा॰ आकाङ्क्षस्य तिङन्तस्यटेः स्वरितः प्लुतः स्यात् आचारभेदे आशिषि प्रैषेषुगम्यमानेषु। स्वयं ह रथेन याति

३ उपाध्यः यं पदातिंगमयति। प्रार्थनायाम्। पुर्त्रांश्च लप्सीष्ट

३ धनञ्च तात। व्यापारणे। कटं कुरु

३ ग्रामं गच्छ। आकाङ्क किम्[Page4546-a+ 26] दीर्घायुरसि अग्नीदग्नीन्विहर।
“अनन्त्यस्यापि प्रश्ना-ख्यानयोः” पा॰ अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्व-रितः प्लुत एतयोः। प्रश्ने। अगम

३ ः पूर्वा

३ न् ग्रामा

३ न्। सर्वपदानामयम्। आख्याने अगम

३ म् पूर्वा

३ न् ग्रा-मा

३ न्।
“प्लुतावैचैदुतौ” पा॰ यत्र दूराद्धूतादिषुप्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौप्लवेते। ऐ

४ तिकायन!। औ

४ पग्व। चतुर्मात्रावत्रऐचौ सम्पद्यते।
“एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्या-दुत्तरस्येदुतौ” पा॰ अप्रगृह्यस्य एचोऽदूराद्धूते प्लुत-विषये पूर्वस्यार्द्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्द्धस्यइदुतौ स्तः। प्रश्नान्ताभिपूजितविचार्य्यमाणप्रत्यभिवादयाज्यान्तेष्वेव। प्रश्नान्ते। अगम

२ पूर्वा

३ न् ग्रामा

३ न्अग्निभूत

३ इ। अभिपूजिते। भद्रं करोषि पट

३ उ। विचार्य्यमाणे। होतव्यन्दीक्षितस्य गृह

३ इ। प्रत्यभि-वादे। आयुष्मानेधि अग्निभूत

३ इ। याज्यान्ते। स्तो-मैर्विधेमाग्नय

३ इ। परिगणनं किम् विष्णुभूते

३ धा-तयिष्यामि त्वाम्। अदूराद्धूत इति न वक्तव्यम्। प-दान्तग्रहणन्तु कर्त्तव्यम्। इह मा भूत् भद्रं करोषि गौ

३ रिति। अप्रगृह्यस्य किम् शोभने माले

३ ।
“आमन्त्रितेछन्दसि प्लुतविकारोऽयं वक्तव्यः। अग्न

३ इ पत्नीव” सि॰ कौ॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुत¦ mfn. (-तः-ता-तं)
1. Jumped, leaped, gone by leap or jump, &c.
2. Thrown or tossed up. m. (-तः)
1. Bounding, capering, one of a horse's paces.
2. Leaping, jumping, tumbling. mn. (-तः-तं) The third sound given to vowels; the protracted or continuous sound, being three times the length of the short vowel, and occupying three moments in its utterance. E. प्लु to go by leaps, aff. क्त |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुत [pluta], p. p. [प्लु-क्त]

Swimming, floating.

Inundated, submerged, overflowed.

Leaped, jumped.

Lengthened, protracted or prolated (as a vowel); अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् Sk.; यान्तो$- न्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुविरे मुहुरात्मवर्ग्याः Śi.5.15.

Covered with, filled with; मन्थायस्तार्णवाम्भःप्लुतकुहर... Ve.1.22.

Bathed in; (see प्लु).

तम् A jump, leap, spring; पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति Ś.1.7.

Capering, one of the paces of a horse.

Bounding, vaulting.

A flood, deluge. -Comp. -गतिः a hare. (-f.)

going by leaps.

a gallop, bounding motion. -मेरुः (in music) a kind of measure.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुत mfn. floated , floating or swimming in( loc. ) , bathed , overflowed , submerged , covered or filled with( instr. or comp. ) Ya1jn5. MBh. R. etc.

प्लुत mfn. protracted , prolated or lengthened (as a vowel) to 3 मात्राs(See. ) Pra1t. Pa1n2. 1-2 , 27 esp. S3rS. etc. (also said of a kind of measure Cat. )

प्लुत mfn. flown R.

प्लुत mfn. leaped , leaping MBh. Hariv.

प्लुत n. a flood , deluge( pl. ) Hariv.

प्लुत n. leaping , moving by leaps MBh. R. Vcar.

प्लुत n. capering (one of a horse's paces) L.

"https://sa.wiktionary.org/w/index.php?title=प्लुत&oldid=375362" इत्यस्माद् प्रतिप्राप्तम्