सामग्री पर जाएँ

प्लुतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुतः, पुं, (प्लुतं प्लुतवद्गतिरस्यास्तीति । प्लुत + अच् ।) त्रिमात्रवर्णः । इति मेदिनी । ते, ३५ ॥ यथा, -- “एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥” इति दुर्गादासादिधृतप्राचीनकारिका ॥ (तथाच । “दूराह्वाने च गाने च रोदने च प्लुतो मतः ॥” इति च दुर्गादासधृतवचनम् ॥ प्लु + क्तः ।) झम्पगतियुक्ते, त्रि ॥ (यथा, हरिवंशे । ९८ । ८४ । “रामादनन्तरं कृष्णः प्लुतो वै वीर्य्यवांस्ततः । ताभ्यामेव प्लुताभ्याञ्च चरणैस्ताडितो गिरिः ॥” अन्तर्णिजर्थत्वात् प्लावितः । यथा, बृहत्संहिता- याम् । ५ । ४४ । “सव्यगते तमसि जगज्जलप्लुतं भवति मुदित- मभयञ्च ॥” सिक्तः । यथा, याज्ञवल्क्ये । १ । २३५ । “अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥” व्याप्तः । यथा, भागवते । ३ । २ । १४ । “यस्यानुरागप्लु तहासरास- लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त- धियोऽवतस्थुः किल कृत्यशेषाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्लुतः&oldid=152405" इत्यस्माद् प्रतिप्राप्तम्