सामग्री पर जाएँ

प्लुतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्लुतम्, क्ली, (प्लु + क्तः ।) अश्वगतिविशेषः । स च त्वरया झम्पेन गतिः । इत्यमरभरतौ ॥ (यथा, अश्ववैद्यके । ३ । १३२ । “अथ यः पुच्छतोऽश्वस्य शनैरविशदो ध्वनिः । अन्तरुत्पद्यते कश्चित्तदश्वप्लुत उच्यते ॥”) तिर्य्यग्गतिः । इति कलिङ्गः ॥ (यथा, कथा- सरित्सागरे । २७ । १५६ । “तिर्य्यञ्चस्तिर्य्यगेवास्य पेतुर्वक्रप्लुता मृगाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्लुतम्&oldid=152404" इत्यस्माद् प्रतिप्राप्तम्