प्लुष्टः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लुष्टः, त्रि, (प्लुष् + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति इट् न ।) दग्धः । इत्यमरः । ३ । १ । ९९ ॥ (यथा, ऋतुसंहारे । १ । २२ । “पटुतरवनदाहात् प्लुष्टशष्पप्ररोहाः परुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः ॥” अस्य लक्षणं यथा, -- “तत्र यद्बिवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टम् ॥ चिकित्सास्य यथा, -- “दग्धस्योपशमार्थाय चिकित्सां संप्रचक्षते । प्लुष्टस्याग्निप्रतपनं कार्य्यमुष्णन्तथौषधम् ॥ शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥ प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् ॥ तस्मात् सुखयति ह्यष्णं नतु शीतं कथञ्चन ॥” इति सुश्रुते सूत्रस्थाने द्बादशेऽध्याये ॥)
