विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फ, फकारः । द्वाविंशतितमव्यञ्जनवर्णः । (पवर्गस्य द्बितीयवर्णश्च ।) अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”) तस्य तत्त्वं यथा, -- “फकारं शृणु चार्व्वङ्गि । रक्तविद्यल्लतोपमम् । चतुर्व्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रे पञ्चमपटकः ॥ * ॥ “वक्रा वामगता रेखा ततोऽधःसङ्गता भवेत् । तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥ ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी । मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्त्तिता ॥” इति वर्णोद्धारतन्त्रम् ॥ तत्पर्य्यायः । “फकारश्च महेशानि ! शिखी चैव जनार्द्दनः ॥” इति रुद्रयामलोक्तवर्णाभिधानम् ॥ अस्य ध्यानं यथा, -- “प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् ॥ एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः । जया पादः शिखा रौद्री फेत्कारः शाखिनी- प्रियः ॥ उमा विहङ्गमः कालः कुब्जिनीप्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रयोगेन भयसम्भावना । यदुक्तं वृत्तरत्नाकरटीकायाम् । “दोधः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥”)

फम्, क्ली, (फक्व असद्व्यवहारे + डः ।) रूक्षोक्तिः । फुत्कृतिः । निष्फलभाषणम् । इति मेदिनी । फे, १ ॥

फः, पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः । इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः । स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः । यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः स्यात् ।” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

¦ न॰ फक्क--ड।

१ रूक्षकथने

२ निष्फलवाक्ये

३ फुत्कारे चमेदि॰

४ झञ्झावाते

५ बर्द्धके

६ जृम्भाविष्कारे

७ फल-भागे च पु॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फ¦ The twenty-second consonant of the Na4gari Alphabet, the aspirate of the preceding letter, and expressed by P'h.

फ¦ m. (-फः)
1. Increasing, swelling, enlarging, expanding.
2. Perform- ance of a mystical rite, by which KUVE4RA'S attendants are pro- pitiated.
3. A high wind, a gale.
4. Wind expelled in yawning.
5. Fruitfulness, fertility.
6. An augmentor or increaser. nf. (फं-फा) Unprofitable or idle speech. n. (-फं)
1. Angry speech.
2. Bursting with some little noise, as air bubbles, boiling water, &c.; bubbling, boiling. f. (-फा) Distress, anxiety. E. फल् to bear fruit, or स्फाय् to swell, aff. ड; in the latter case, the initial is rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फ [ph], a. Obvious, evident.

फः A high wind, stormy gale.

Yawning with the mouth wide open.

Fruitfulness.

The performance of a mystical rite (to propitiate Kubera;s attendants).

Increasing, expanding.

Swelling.

Gain.

फा Useless or idle speech (n., also).

Heat.

Increase.

फम् An angry speech

Blowing into, puffing up.

Bubbling, boiling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फ aspirate of प.

फ mfn. (only L. )manifest

फ m. a gale

फ m. swelling

फ m. gaping

फ m. gain

फ m. = वर्धक

फ m. = यक्ष-साधन

फ n. flowing

फ n. bursting with a popping noise

फ n. bubbling , boiling

फ n. angry or idle speech.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

phalakīvana ................................ p392
phalgu^1 ...................................... p393
phalgu^2 ...................................... p393
phalgutīrtha .............................. p393
phalguna ...................................... p259
phalgunī ...................................... p259

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=फ&oldid=507748" इत्यस्माद् प्रतिप्राप्तम्