फलितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलितम्, त्रि, (फल + तारकादित्वात् इतच् ।) फलमस्य जातम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, देवीभागवते । १ । १७ । १२ । “संपश्यन् विविधान् देशान् लोकांश्च वित्त- धर्म्मिणः । वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥”) वृक्षे, पुं । इति धरणिः ॥ शैलेये, क्ली । इति राजनिर्घण्टः ॥
