फलिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलिनी, स्त्री, (फलमस्या अस्तीति । इनिः । ङीप् ।) प्रियङ्गुवक्षः ॥ (पर्य्यायोऽस्या यथा, -- “प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया । गुन्द्रा गुन्द्रफला श्यामा विष्वक्सेनाङ्गना प्रिया ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथा, रघौ । ८ । ६१ । “मिथुनं परिकल्पित त्वया सहकारः फलिनी च नन्विमौ अविधाय विवाहसत्क्रिया- मनयो र्गम्यत इत्यसाम्प्रतम् ॥”) अग्निशिखावृक्षः । इत्यमरः । २ । ४ । १३६ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलिनी स्त्री।
प्रियङ्गुवृक्षः
समानार्थक:श्यामा,महिलाह्वय,लता,गोवन्दनी,गुन्द्रा,प्रियङ्गु,फलिनी,फली,विष्वक्सेना,गन्धफली,कारम्भा,प्रियक
2।4।55।2।5
कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
फलिनी स्त्री।
अग्निशिखा
समानार्थक:विशल्या,अग्निशिखा,अनन्ता,फलिनी,शक्रपुष्पिका
2।4।136।2।4
शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः। विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलिनी [phalinī] फली [phalī], फली The Priyaṅgu creeper; (said by poets to be the 'wife' of the mango tree; cf. मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ R.8.61).
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलिनी f. a species of plant(= अग्नि-शिखाor प्रियङ्गु) L.