सामग्री पर जाएँ

फलेग्रहिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फलेग्रहिः, पुं, (फलं गृह्णातीति । फल + ग्रह + “फलेगृहिरात्मम्भरिश्च ।” ३ । २ । २६ । इति उप- पदस्य एदन्तत्वं ग्रहेरिन् प्रत्ययश्च निपात्यते ।) यथासमयं फलधरवृक्षः । ऋतुप्राप्तौ फलानि गृह्णाति घारयतीति फलेग्रहिः शकृत्स्तम्बादि- त्यादिना इः सूत्रे फले इति निर्द्देशात् एकारः । किंवा फले गृह्णाति इति फलेग्रहिः कर्म्मण्या- धारविवक्षा निपातनात् सप्तम्या अलुक् लुकि फलग्रहिश्च फलेग्रहिः फलग्रहिरिति वाच- स्पतिः । इह ग्रहिर्धारणार्थः स्वीकारार्थश्च अत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारार्थे तु क्रियाशब्दतैव यथा फलेग्रहीन् हंसि वन- स्पतीनामिति भट्टिः ॥ इति रायमुकुटादयः । इत्यमरटीकायां भरतः ॥ फलग्रहणकर्त्तरि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=फलेग्रहिः&oldid=152597" इत्यस्माद् प्रतिप्राप्तम्