फल्गुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फल्गुः, स्त्री, (फल निष्पत्तौ + उः । गुगागमश्च ।) गयास्थनदीभेदः । तस्या माहात्म्यादि यथा, -- सार्द्धक्रोशद्बयं मानं गयायां परिकीर्त्तितम् । पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥ तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती । नगाज्जनार्द्दनाच्चैव कूपाच्चोत्तरमानसात् ॥ एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते । तत्र पिण्डप्रदानेन पितॄणां परमा गतिः ॥ पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च । फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥” इति गारुडे ८३ अध्यायः ॥ अन्यत् गयाशब्दे द्रष्टव्यम् ॥ * ॥ काकोडम्बरिका । इत्यमरः ॥ काकडुमुर इति भाषा ॥ (अस्याः पर्य्यायो यथा, -- “भद्रा मलपूः फल्गुः स्यात् काकडुम्बरिका च सा ॥” इति वैद्यकरत्नमालायाम् ॥) अस्या गुणाः । गुरुत्वम् । ग्राहित्वम् । शीत- लत्वम् । स्वादुत्वम् । तृप्तिकारित्वञ्च । इति राजवल्लभः ॥ रेणुभेदः । फागु इति प्रसिद्धः । मिथ्यावाक्यम् । इति शब्दरत्नावली ॥ वस- न्तर्त्तुः । इति जटाधरः ॥
