फल्गुनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फल्गुनः, पुं, (फलति कार्य्यादिकमस्मादिति । फल निस्पत्तौ + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् गुगागमश्च । फल्गुन्यां फल्गुनीनक्षत्रे जातः इति वा । “श्रविष्ठा फल्गुन्यनुराधेति ।” ४ । ३ । ३४ । इति जातार्थ- प्रत्ययस्य लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति स्त्रीप्रत्ययस्य च लुक् । एतन्निरुक्तिस्तु फाल्गुनशब्दे द्रष्टव्या ।) अर्ज्जुनः । फाल्गुन- मासः । इत्यमरटीकायां भरतः ॥ (फल्गुनी- भवे, त्रि । इति सिद्धान्तकौमुदी ॥)
