सामग्री पर जाएँ

फाणितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फाणितम्, क्ली, (फण गतौ + णिच् + क्तः ।) अर्द्धा- वर्त्तितेक्षुरसः । फेणीति ख्यातम् । इत्यमर- भरतौ ॥ (यथा, महाभारते । १३ । ६४ । २३ । फल्गुनी पूर्ब्बसमये ब्राह्मणानामुपोषितः । भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्य- मृच्छति ॥”) अस्य गुणाः । गुरुत्वम् । अभिष्यन्दित्वम् । बृंहणत्वम् । कफशुक्रलत्वम् । वातपित्तश्रमनाशि- त्वम् । मूत्रवस्तिविशोधनत्वञ्च ॥ * ॥ “इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥” इति भावप्रकाशः ॥ (यथा च । “शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥ “फाणितं शक्तवः सर्पि र्दधिमण्डोऽम्लकाञ्जिकम् । तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं पिबेत् ॥” इति चरके सूत्रस्थाने २३ अध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फाणितम् [phāṇitam], Raw sugar; इक्षोः रसस्तु यः पक्वः किंचिद् गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥ Bhāva. P.; condensed juice of sugarcane (Mar. काकवी); फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा N.14.118.

A product of milk (गोरसविकार); भक्ष्यान् फाणितसंयुक्तान् दत्वा सौभाग्यमृच्छति Mb.13.64.13.

"https://sa.wiktionary.org/w/index.php?title=फाणितम्&oldid=377780" इत्यस्माद् प्रतिप्राप्तम्