फालः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फालः, पुं, (फल्यते विदार्य्यते क्षेत्रमनेनेनि । फल + करणे घञ् ।) लाङ्गलस्थभूमिविदारक- लौहः । फल्यते विशीर्य्यते मूमिरनेन सः । तत्पर्य्यायः । कृषिकः २ । इत्यमरः । २ । ९ । १३ ॥ कृषकः ३ । फलम् ४ । इति भरतः ॥ कृषि- का ५ । फालम् ६ । इति मुकुटः ॥ कुशिकम् ७ । इति हेमचन्द्रः । ३ । ५५५ ॥ महादेवः । बल- देवः । कार्पासवस्त्रे, त्रि । इति मेदिनी । ले, ३४ ॥ नवविधदिव्यान्तर्गताष्टमदिव्यम् । तस्य विधि- र्यथा । बृहस्पतिः । “आयसं द्बादशपलघटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥ अग्निवर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥” चौरोऽत्र गोचौरः । गोचौरस्य प्रदातव्यं तप्त- फालावलेहनमिति स्मृतिरिति मैथिलाः ॥ अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरं आयसं लेलिहानस्य जिह्वयापि समादिशेदिति पिता- महोक्तेः प्राड्विवाकशोध्याभ्यामग्र्यभिमन्त्रणं कार्य्यम् ॥ * ॥ तत्र प्रयोगः । लौकिकचत्वारिंश- त्तोलकमितं लौहघटितमष्टयवमध्यात्मकाङ्गुलाष्ट- दीर्घं तथाविधचतुरङ्गुलप्रस्तारं फालमग्नौ ताप- येत् । तत्र प्राड्विवाको धर्म्मावाहनादिहवनान्तं कर्म्म कृत्वा दक्षिणां दत्त्वा, -- ‘ओ~ त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हूयसे । त्वं मुखं सर्व्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात् पाधक उच्यते ॥ पापेषु दर्शयात्मानमर्च्चिष्मान् भव पावक ! । अथवा शुभभावेन शीतो भव हुताशन ! ॥ त्वमग्ने सर्व्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥’ इत्येतैः फालस्थमग्निं अभिमन्त्रयेत् । शोध्यस्तु प्रतिज्ञापत्रं शिरसि निधाय । ‘त्वमग्ने सर्व्वभूतानामन्तश्चरसि पावक ! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥’ इत्यनेनाभिमन्त्र्य अग्निवर्णं फालं जिह्वया सकृ- ल्लिह्यात् न दग्धश्चेत्तदा शुद्धः ।” इति दिव्य- तत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फालः [phālḥ] लम् [lam], लम् 1 A ploughshare; Ms.6.16.
Separation of the hair on each side of the head (सीमान्तभाग); द्विफालबद्धाश्चिकुराः शिरःस्थितम् N.1.16.
A sort of spade.
A bundle.
The forehead (for भाल).
लः An epithet of Balarāma.
Of Śiva.
The citron. tree.
लम् A garment of cotton.
A ploughed field. -Comp. -आहत a. ploughed, tilled. -कृष्ट a.
tilled.
produced by cultivation; न फालकृष्टमश्नीयात् Ms. 6.16. (-ष्टम्) a ploughed field. -गुप्तः N. of Balarāma.
