फाल्गुनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फाल्गुनः, पुं, (फलति निष्पादयतीति । फल् + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् ततो गुक् । ततः प्रज्ञाद्यण् । यद्वा फल्गुन्यां फल्गुनीनक्षत्रे जातः फल्गुनः । स एव । अण् एतन्निरुक्तिर्यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥”) गुडाकेशः । नदीजवृक्षः । अर्ज्जुनवृक्षः । तपस्य मासः ॥ यथा, -- “फाल्गुनस्तु गुडाकेशे नदीजार्ज्जुनभूरुहे । तपस्यसंज्ञे मासे तत्पूर्णिमायान्तु फाल्गुनी ॥” इति दन्त्यनान्तवर्गे मेदिनी ॥ अतएव । “फाल्गुने गगने फेने णत्वमिच्छन्ति वर्व्वराः ।” इति कारिका समूलिका । अत्र अणत्वमिच्छ- न्तीति अकारप्रश्लेषो भ्रान्तानाम् ॥ * ॥ (फाल्गुनी पौर्णमासी अस्मिन्निनि । “विभाषा फल्गुनीश्रवणकार्त्तिकीचैत्रिभ्यः ।” ४ । २ । २३ । इति पक्षे अण् ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फाल्गुनः [phālgunḥ], 1 N. of a Hindu month (corresponding to February-March).
An epithet of Arjuna; Mb. thus explains the epithet: उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्या- महं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥
N. of a tree, also called अर्जुन.
Comp. अनुजः the month Chaitra.
the vernal season; (वसन्तकाल).
an epithet of नकुल and सहदेव.
