सामग्री पर जाएँ

फुल्लः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फुल्लः, त्रि, (फुल्लतीति । फुल्ल + अच् । यद्बा, फलतीति । ञि फला विसरणे + क्तः । “आदि- तश्च ।” ७ । २ । १६ । इति इडभावः । “ति च ।” ७ । ४ । ८१ । इति उत्वम् । अनुपसर्गात् । फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठा तस्य लः ।) विकसितः । इत्यमरः । २ । ४ । ८ ॥ (यथा, महा- भारते । १ । १२८ । ४१ । “जलञ्च शुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ॥”) पुष्पम् । फुल इति भाषा । यथा, -- “श्रीपञ्चम्यां श्रियं देवीं फुल्लैः संपूजयेत् सदा ॥” इति कालिकापुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=फुल्लः&oldid=152682" इत्यस्माद् प्रतिप्राप्तम्