फुल्लदाम
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फुल्लदाम, [न्] क्ली, (फुल्लानां पुष्पाणां दाम इव ।) छन्दोभेदः । यथा, -- “मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥” उदाहरणं यथा, -- “शश्वल्लोकानां प्रकटितकथनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्वि- मुक्तम् । मुग्धामोदेन स्थगितदशदिशाभोगमाहूतभृङ्गं मौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥” इति छन्दोमञ्जरी ॥
