फेत्कारिणी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फेत्कारिणी, स्त्री, (फेत् करोतीति । कृ + णिनिः । ङीप् ।) तन्त्रविशेषः । यथा, -- “उन्मत्तभैरवं नारसिंहं डामरभैरवम् । शिवाकारं मलिन्याद्यमसिताङ्गादि यामलम् ॥ सिद्धयोगेश्वरं तन्त्रं योगिनीजालमम्बरम् । दृष्ट्वा कृत्था विधिं फेत्कारिणीतन्त्रं विरच्यते ॥” इति प्रथमश्लोकद्वयम् ॥ “फेत्कारिणीतन्त्र इयं मयोक्ता कृत्या सभस्तागमसारभूता । शत्रोर्विनाशाय धनाय धर्म्म- मोक्षाय सम्यक् प्रयतो नियोज्या ॥” इति फेत्कारिणीतन्त्रस्य शेषश्लोकः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फेत्कारिणी¦ स्त्री तन्त्रभेदे।