सामग्री पर जाएँ

फेनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फेनः, पुं, (स्फायते वर्द्धते इति । स्फाय + “फेन- मीनौ ।” उणा० ३ । ३ । इति नक् फेशब्दा- देशश्च ।) फेणः । फेना इति भाषा । तत्- पर्य्यायः । हिण्डीरः २ अब्धिकफः ३ । इत्य- मरः । २ । ९ । १०५ । ॥ हिण्डिरः ४ । इति शब्दरत्नावली ॥ समुद्रकफः ५ जलहासः ६ फेनकः ७ । इति त्रिकाण्डशेषः ॥ स्फायते फेनः स्फायी ङ वृद्धौ नाम्नीति डेनः निपात- नात् सलुक् दन्त्यनान्तः । इत्यमरटीकायां भरतः ॥ अस्य दन्त्यनान्तस्य प्रमाणान्तरं यथा, “वानीरं गगनं फेनमूनञ्च दन्त्यनान्वितम् । आहुर्गगनमिच्छन्ति केचिन्मूर्द्धन्यणान्वितम् ॥” इति भरतसेनविरचितं सुखलेखनम् ॥ (यथा, रघुः । १३ । ११ । “मातङ्गनक्रैः सहसोत्पपतद्भि- र्भिन्नान् द्विधा पश्य समुद्रफेनान् ॥” तरलद्रव्योपरिसमुत्थितवुद्वुदाकारवस्तुमात्रम् । यथा, महाभारते । १ । ३ । ५२ । “भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनान् पिबन्त उद्गिरन्ति ॥” * ॥ उशद्रथस्य पुत्त्रः । यथा, हरियंशे । ३१ । २९ । “उशद्रथो महाराज ! फेनस्तस्य सुतोऽभवत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=फेनः&oldid=152698" इत्यस्माद् प्रतिप्राप्तम्