फेनवान्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फेनवान्, [त्] त्रि, (फेनोऽस्त्यस्येति । “फेनादि- लच्च ।” ५ । २ । ९९ । इत्यत्र अन्यतरस्या- मित्यनुवृत्तेः पक्षे मतुप् । मस्य वः ।) फेनिलः । इति सिद्धान्तकौमुदी ॥ (यथा, महाभारते । ३ । १४३ । २० । “तत्र सागरगा ह्यापः कीर्य्यमाणाः समन्ततः । प्रादुरासन् सुकलुषाः फेनवत्यो विशाम्पते ! ॥”)
